पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः।

एतैश्चतुर्भिरुपाधिभिः प्रकारैश्चतस्रो दशा अवस्थाः प्रणयन्कुर्वेश्चतुर्दशत्वं कुतः केन हेतुना कृतवान् [इत्यहं] न जाने । अत्र हेतुर्नास्तीत्यर्थः । चतुर्दशसु विद्यासु स्वतश्चतुर्दशत्वे सिद्धेऽपि तत्करणं पिष्टपेषणतुल्यत्वादयोग्यम् । चतुर्दशसु चतुर्दशत्वं धर्मः सिद्ध एव । किंचाधीत्यादिचतुर्भिः प्रकारैरेकैकस्या विद्यायाश्चतुरघस्थत्वेन षट्पञ्चाशता भाव्यमिति चतुर्दशत्वाक्षेपोऽपि । तस्माच्चतुर्दशत्वमेव स्वयं ज्ञाता सन्कुतः कृतवानित्यहं न वेद्मीति कवेरुक्तिरित्याशङ्क्य पुनः स्वयं वदति-चतुर्भिरधिका दशेत्ययमर्थो न चतुर्दशत्वस्य, किंतु चतस्रो दशा अवस्था अधीत्यादयो यासां ताश्चतुर्दशास्तासां भावस्तत्त्वम् । तदहं न जाने इति न । अपितु जाने एवेति काकुः । एतेन षट्पञ्चाशत्त्वं निरस्तम् । चतुर्भिरधिका दशेत्यपि निरस्तम् । यद्यपि क्षत्रियस्याध्यापने नाधिकारः, १तथापि धनादि दत्त्वा ब्राह्मणद्वाराध्यापनं युक्तमिति न दोषः । एतेन चतुर्दशापि विद्यास्तस्य स्फुरन्तीत्युक्तम् । 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥' इति याज्ञवल्क्यः। 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥' इति मनुः। 'उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे' इति विश्वः । बोधशब्दस्योत्तरेण समासं कृत्वाधीतिशब्देन समासः । अन्यथा बोधस्य पूर्वनिपातः स्यात् । यद्वा-अधीतेरभ्यर्हितत्वात्पूर्वनिपातः। 'लट्' इत्यनुवर्तमाने पुनर्लड्ग्रहणात्प्रथमासामानाधिकरण्येऽपि शता । तद्योगे च 'न लोका-' इति षष्ठीनिषेधाद्दशा इति द्वितीया । एवं सर्वत्र झेयम् । चतुर्दशत्वमित्यत्र 'त्वतलोर्गुणवचनस्य' इति पुंवत् । गुणग्रहणेन जातिसंज्ञयोर्निवृत्तिः क्रियते, न शुक्लादिगुणविशेषप्रतिपत्तिः। तथा च -'व्रजति हि सफलत्वं वल्लभालोकनेन' इत्यादयः प्रयोगा युज्यन्ते२ ॥ उपवेदानामनन्तर्भावमाश्रित्य विद्यान्तरसंबन्धं वर्णयितुमाह-

अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ ५ ॥

 अमुप्येति ॥ अमुष्य नलस्य विद्या मुख्यत्वाद्वेदलक्षणैव नवद्वयद्वीपपृथग्जयश्रियां जिगीषयेव । लुप्तोत्प्रेक्षां । अष्टादशतामष्टादशप्रकारत्वमगाहत प्राप । यद्यपि विद्याया अष्टादशत्वं स्वत एवास्ति, तथापि साष्टादशविधाप्यनेनाभ्यस्तेत्यभिसंधिः । नवानां द्वयमष्टादश । नवद्वयं च ते द्वीपाश्च तेषां पृथग्भिन्ना या जयश्रियो जयसूचिकाः श्रियः । यद्वा-जयन्तीति जयाः सर्वोत्कर्षेण वर्तमाना याः श्रियस्तासां३ जेतुमिच्छया । एकया विद्ययैका द्वीपश्रीर्जेतव्या, इत्यष्टादशभिर्विद्याभिरष्टादश द्वीपश्रियः सुखेन जेतुं शक्या इत्यर्थः । यद्धा-अमुष्य या विद् बुद्धिः साष्टादशतामगाहतेति पूर्ववदन्वयः । अष्टादशद्वीपभिन्नजयश्रियां जिगीषयाष्टादश बुद्धिविशे-


 १ 'धनुर्वेदादीनामध्यापनेऽस्त्येवाध्यापनयोग्यता । यथोक्तं कालिदासेन–'त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवित्' इत्यादि।' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षालंकारः' इत्यपि सैव। ३ जेतुमित्यस्याव्ययत्वेन 'न लोकाव्यय-' इति षष्ठीनिषेधप्राप्तावपि प्रधानभूत'इच्छा' इति कृदन्तयोगे 'तण्डुलानां भोक्तुं पाकः' इतिवत्कर्मणि षष्ठी।