पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
नैषधीयचरिते

 पद्भयामिति ॥ पद्भ्यां संचरमाणो विचरन् एष नृपः कथंकथंचिच्चरणचारित्वेन परिचयाभावादतिमहता क्लेशेन चिरं परिभ्रम्य परितो भ्रमित्वा अभ्रंकषमत्युञ्चत्वाद्गगनलग्नशिखरं विदर्भराजप्रभवया भैम्या अभिरामं सुशोभमधिष्ठितमित्यर्थः । प्रासादभाससाद प्राप । विप्रलम्भजनितपरिभ्रमणवशादेव प्रासादं प्राप्तवान्, न तु बुद्धिपूर्वकमिति भावः। संचरमाणः, 'समस्तृतीयायुक्तात्' इति तङ् । कथंकथंचित् इति समुदायनिपातोऽतिकृच्छ्रार्थों द्रष्टव्यः । अभ्रंकषम् , 'सर्वकूलाभ्र-' इति खच् ॥

  सखीशतानां सरसैर्विलासैः स्मरावरोधभ्रममावहन्तीम् ।

  विलोकयामास सभां स भैम्यास्तस्य प्रतोलीमणिवेदिकायाम् ॥५६ ॥

 सखीति ॥ स नलः तस्य प्रासादस्य प्रतोल्यां पुरोमार्गे मणिवेदिकायां मणिबद्धभूमौ भैम्याः सभां विलोकयामास । किंभूताम्-सखीशतानां सरसैः सङ्गारैः विलासैर्विभ्रमैः स्मरस्यावरोधभ्रममन्तःपुरभ्रान्तिमावहन्तीं कुर्वतीम् । सखीनां रतितुल्यत्वात्। प्रतोलीमणिबद्धवेदिकोपरि रचितां सभां ददर्शेत्यर्थः । 'रथ्या प्रतोली विशिखा' इत्यमरः[१]

  कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः ।

  इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥ ५९॥

 कण्ठ इति ॥ यत्र सभायां नलेन कलं मधुरास्फुटमालपन्ती रागालापं कुर्वती कापि काचिद्वाला अन्तर्मनसि इत्यस्तूयत स्तुता नतु व्यक्तवाचा । इति किम्-अस्याः सुन्दर्याः त्रिरेखः लक्षणभूतास्तिस्रो रेखा यस्मिन्स कण्ठः तिस्रोऽपि पिक-वेणु-वीणाः स्वरामृतेन जिताः पराभूताः सूचयति ज्ञापयति किम् । मधुरस्वराकर्णनेन, रेखात्रयद र्शनेन च कोकिला-वेणु-वीणानां त्रयस्य जयसूचनार्थमिदं रेखात्रयं कण्ठेन धृतम् , नतु लक्षणत्वेनेत्युपमीयत इत्यर्थः । 'रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते' इति सामुद्रिकलक्षणोक्तिः[२]

  एतं नलं तं दमयन्ति पश्य त्यजार्तिमित्यालिकुलप्रबोधान् ।

  श्रुत्वा स नारीकरवर्तिसारीमुस्ववमाशङ्कत यत्र दृष्टम् ॥ ६०॥

 एतमिति ॥ यत्र सभायां स नलः नारी सुन्दरी तत्करवर्तिनी सारी सारिका तस्या मुखादित्येवं आलिकुलेन सखीसमूहेन पाठितान्प्रबोधान् सान्त्वनवाक्यानि श्रुत्वा स्वात्मानं ताभिर्दृष्टमाशङ्कत । इति किम्-हे भैमि दमयन्ति, त्वं तं मनसि स्थितमेतं पुरोवर्तिनमागतं वा नलं पश्य,आर्ति तद्वियोगजनितां पीडां त्यजेति। अहमेताभिः प्रायोऽत्र दृष्टः, अन्यथा सारिकामेवमेताः कुतः पाठय[३]न्तीति ॥


  1. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । 'अत्र कण्ठरेखात्रयस्य विशेषणगत्या निजपिकादित्रयविजयसूचकत्वोत्प्रेक्षाहेतुत्वाकाव्यलिङ्गसंकीर्णेयमुत्प्रेक्षा' इति जीवातुः।
  3. 'अत्र शङ्काभावोदयालंकारः' इति । साहित्यविद्याधरी । 'सारीवाक्ये नारीवाक्यभ्रमाद्भेान्तिमदलंकारो व्यज्यते' इति वस्तुनालंकारध्वनिः' इति जीवातुः।