पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
षष्ठः सर्गः।

  यत्रैकयालीकनलीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ।

  तदृक्पथे दौहदिकोपनीता शालीनमाधायि मधूकमाला ॥ ६१ ॥

 यत्रेति ॥ यत्र सभायां मृषा मिथ्या भीमभवीभवन्त्या भैमीवेषं धारयन्त्या एकया अलीकनलीकृतालीकण्ठे असत्यनलाकारीकृतसखीकण्ठे दौहदिकोपनीता मालाकारेणानीता मधूकमाला तस्यादृश्यस्य नलस्य दृक्पथे दृग्गोचरे शालीनं सलज्जमाधायि निक्षिप्ता । भैमीविनोदार्थं तादृशीमेव क्रीडां सर्वाः कुर्वन्तीति भावः । दौहदिका धात्री वा । वृक्षादिदोहदे नियुक्तो दौहदिकः 'तत्र नियुक्तः' इति ठक् । 'शालीनकौपीने अधृष्टाकार्ययोः' इति निपातनाच्छालीनशब्दः साधुः[१]

  चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् ।

  सखीमुखे चन्द्रसमे ससर्ज चन्द्रनवस्थामिव कापि यत्र ॥६२ ॥

 चन्द्रेति ॥ यत्र सभायां कापि काचित्सुन्दरी चन्द्राणामनवस्थामियत्तानवधारणान्निर्णयाभावम् , अन्योन्यस्मिन्प्रतिबिम्बादनवस्थितिं वा ससर्ज इव। किंभूता-चन्द्रसमे चन्द्रतुल्ये निजसखीमुखेऽतिस्वच्छत्वाच्चन्द्राभं चन्द्रतुल्यम् , आभ्रमभ्रमतिस्वच्छद्रव्यविशेषः तत्संबन्धि आभ्रं तद्रूपं तिलकं ललाटाभरणं दधाना कुर्वाणा । किंभूतमाभ्रं तिलकम्--तद्वच्चन्द्राकाराभ्रतिलकयुक्तं निजं स्वीयमास्यं, तल्लक्षण इन्दुः तेन कृतमनुबिम्बं यत्र । चन्द्राकाराभ्रतिलकयुक्तस्वीयमुखचन्द्रे कृतमनुबिम्बं येनेति वा । यन्मुखे चन्द्राकारे चन्द्राकारोऽभ्रतिलकः क्रियते, तस्याश्चन्द्राकारोऽभ्रतिलको, मुखं च द्वौ चन्द्रौ अलंकारकारिण्याश्चन्द्राकारेऽभ्रतिलके प्रतिबिम्बितौ । यया चालंकारः क्रियते तस्या मुखं, तत्र विद्यमानोऽभ्रतिलकश्च द्वौ चन्द्रौ यस्याः क्रियतेऽलंकारस्तन्मुखचन्द्राभ्रतिलके प्रतिबिम्बितौ एवं प्रतिबिम्बितयोरपि परस्पराभिमुखमुखचन्द्राभ्रतिलकयोः प्रतिबिम्बरूपौ परस्परमुखचन्द्राभ्रतिलकौ प्रतिबिम्बितौ । एवं प्रतिबिम्बितप्रतिबिम्बादावित्येवं चन्द्रानवस्था द्रष्टव्या । तद्विद्यतेऽत्र-तद्वदित्यत्र मतुपो मकारस्य 'झयः' इति वः[२]

  दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् ।

  तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः ॥६३ ॥

 दलोदरेति ॥ यत्र सभायां काञ्चनकेतकस्य सुवर्णकेतकीकुसुमस्य दलोदरे पत्रगर्भे क्षणाल्लेखनानन्तरं क्षणमेव मसीभावुका मसीभवनशीला वर्णलेखा यस्मिन् तस्यैव नलसंबन्धिनमेव मम नखक्षतादिवाञ्छा विद्यत इत्येवमादिरूपं स्वं स्वीयमनङ्गलेखं मनोपदिष्टं लेखनं भैमी नखलेखिनीभिर्लिलेख । विरहिणीभिःस्वीयभावसूचनार्थंप्राणेशाय पत्रिका प्रेष्यते, मस्या वर्णाश्च लिख्यन्ते। केतकीपुष्पेषु नललेखानां श्यामीभवनं स्वभावः । भावुक इति 'लषपत-' इति शीले उ[३]कञ् ॥


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी ।
  2. 'अत्र रूपकोपमोत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासरूपकालंकारसंकरः' इति साहित्यविद्याधरी ।