पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
नैषधीयचरिते

  विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र ।

  अशाकि लीलाकमलं न पाणिरपारि कर्णोत्पलमक्षि नैव ॥ ६४ ॥

 विलेखितुमिति ॥ यत्र सभायां लिपीषु चित्रकर्मसु अतिविख्यातिभृतातिकुशलया अपि भैमीसख्या भीमभुवो भैम्या लीलाकमलं भित्तौ चित्रपटे वा विलेखितुमशाकि शक्तम् । पाणिः करो नैव लेखितुं शक्तः । तथा--कर्णोत्पलं कर्णाभरणीभूतं विलेखितुमपारि पर्याप्तम् । अक्षि तु लेखितुं नैवापारि । लीलाकमलावतंसोत्पलापेक्षया पाणिनयनमतिसुन्दरत्वाल्लेखितुं न शक्तमिति भावः । विलेखितुम् , 'शकधृष-' इति, पर्याप्तिवचन-' इति वा तुमुन् , लघूपधत्वाद्गुणः । लिपीषु, 'कृदिकारात्-' इति ङीष् [१]

  भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ।

  गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥ ६५ ॥

 भैमीमिति ॥ यत्र सभायां कलिप्रियस्य नारदस्य गन्धर्ववधूलक्षणः प्रियः शिष्यवर्गः एत्यागत्य भैमीमुपावीणयद्वीणया उपागायत् । किंभूतः--स्वरमधुना स्वरामृतेनारीणं पूर्णं तस्या भैम्याः कण्ठनालं तेन एकधुरां वहति एकधुरीणा तुल्या वीणा यस्य । प्रथमं गन्धर्ववध्वः, अनन्तरं नारदेन वीणावादनामध्यापिताः, अतिकौशलात्तस्यातिप्रियाः। एवंविधा अपि वीणावादने ततोप्यधिकं कौशलमभ्यसितुं तत्रागत्य भैमीं वीणयोपगायन्ति स्मेति भावः । वीणागन्धर्व्यपेक्षया भैमीकण्ठस्यातिमाधुर्यं सूचितम् । नालपदेन मुखस्य कमलत्वं च । 'स्क(स्य )न्नं रीणं स्नुतं स्रुतम्' इत्यमरः । रीणम् , 'ओरीङ् क्षरणे' अस्मादोदित्त्वान्निष्ठानत्वम् । उपावीणयत् , 'सत्यापपाश-' इति णिच् । कलिः प्रियो यस्येति 'वा प्रियस्य' इति पूर्वनिपाताभावः । एकधुरीणेत्यत्र 'एकधुराल्लुक्च' इति खः[२]

  नावा स्मरः किं हरभीतिगुप्ते पयोधरे खेलति कुम्भ एव ।

  इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिरूचे ॥ ६६ ॥

 नावेति ॥ यत्र सभायां सखीभिः सखी इति पूर्वोक्तमूचे । किंभूता-अर्धचन्द्राभोऽर्धचन्द्राकारो नखाङ्कः नखक्षतं तेन चुम्बिनावाश्लिष्टौ स्तनौ यस्याः सा । इति किम्--हे सखि, स्मरः ते तव पयोधरे स्तनलक्षणे कुम्भ एव, अथ च पयोधरे जलाधारे कुम्भ एव, हरादू भीतिः तस्याः सकाशादात्मानं गोपायतीति हरभीतिगुप् एवंभूतः सन् नावा नौकया खेलति किं वितर्के । अर्धचन्द्राकारत्वान्नखाङ्के नौकात्वं युक्तम् । 'अग्निभीतो हि शैत्यप्रधानं स्थानमाश्रयति' इति त्रिनेत्रानलाद्भीत्या पलायितः निर्भयं शीतस्तनद्वयलक्षणं स्थानमागत्य सुखेन जलक्रीडां करोतीत्यर्थः । एवमन्योपि वैरिणः सकाशात्पलाय्य निर्भयं स्थानं गत्वा क्रीडति । हरेण पार्वत्याः सकाशाद्भीतिस्तया गुप्ते


  1. 'अत्र प्रतीपमलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी।