पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
नैषधीयचरिते

नाकनदीत्वम्, हारसमीपे मकर्या विद्यमानत्वान्मकरीवाहनत्वं नाकनद्यामुत्प्रेक्षितम् । 'एकावल्येकयष्टिका' इत्यमरः । गङ्गा मकरवाहिनीति प्रसिद्धिः [१]

  तामेव सा यत्र जगाद भूयः पयोधियादः कुचकुम्भयोस्ते ।

  सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशःप्रशस्तिः ॥ ७० ॥

 तामिति ॥ यत्र सा सुमध्या तामेव सखीं भूयः पुनरपि इति जगाद । इति किम्- हे सखि, पयोधियादः समुद्रजलजन्तुः तावकस्त्वदीयहृदयस्थितो हृच्छयः कामस्तस्य अङ्कश्चिह्नं मीनस्तस्य प्रिया प्राणेश्वरी ते कुचकुम्भयोः स्थिता सती सेयं मकरी अर्थात्कुचयोः विस्तारस्य पीवरत्वस्य यशःप्रशस्तिर्यशःशासनमस्तु भवत्विति । या समुद्रे सदा वसति सा तं विहाय चेत्कुचयोः स्थिता, तर्हि तदपेक्षयाऽनयोस्त्वत्कुचयोः पीवरत्वं दुरवगाहत्वं च स्पष्टतरम् , नान्यस्येति यशःशासनमस्तु । प्राणेशस्य हृच्छयत्वेन प्रियाया अपि तत्रैव स्थातुमुचितमिति भावः[२]

  शारीं चरन्तीं सखि मारयैतामित्यक्षदाये कथिते कयापि ।

  यत्र स्वघातभ्रमभारुशाराकाकूत्थसाकूतहसः स जज्ञ ॥ ७१ ॥

 शारीमिति ॥ चरन्तीं गृहाद्गृहान्तरं गच्छन्तीमथ च भ्रमन्तीमेतां शारीमक्षोपकरणं, शकुनिविशेषं च हे सखि, गृहाण मारय जहि चेति कयापि कयाचित्सखीं प्रति अक्षदाये पाशकदाने कथिते सति यत्र स नलः द्वितीयार्थप्रतीत्या स्वघातस्य भ्रमो भ्रान्तिस्तेन भीरुर्भयशीला शारी पक्षिविशेषस्तस्याः काकुः भयविकृतस्वरस्तस्य उत्थ उत्थानं तेन साकूतः साभिप्रायः हसो हास्यं यस्य एवंविधो जज्ञे जातः । मां मारयिष्यतीति भिया सविकृतस्वरमुड्डीनां शारीं दृष्ट्वा पशोरप्येवं ज्ञानं कथमिति भ्रान्तिवशाच्च साश्चर्यत्वात्सहास्यो जात इत्यर्थः । 'शारी चाक्षोपकरणे तथा शकुनिकान्तरे,' 'दायो दाने यौतिकादिधने' इति विश्वः । हसः ‘स्वनहसोर्वा' [३]

  भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।

  कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानमूहे ॥ ७२ ॥

 भैमीति ॥ यत्र स नलः भैमीसमीपे ताम्बूलधारणार्थं जाम्बूनदहंसलक्ष्मीं सुवर्णघटितहंसपुत्तलिकाशोभां निरीक्ष्य कृतः प्रियादूत्यलक्षणो महानुपकारो येन एवंभूतो मरालो हंसस्तस्मिन् मोहो भ्रान्तिस्तस्य द्रढिमा दृढत्वमूहे । प्रापेत्यर्थः । मम दूतो हंस एवायं किमिति तस्य भ्रमो जात इत्यर्थः । ऊहे, वहेर्लिटि 'वचिस्वपि-' इति संप्रसारण[४]म् ॥

  1. अत्र छेकानुप्रासरूपकालंकारसंकरः' इति साहित्यविद्याधरी।
  2. 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी। इत्यप् ॥
  4. 'अत्र भ्रान्तिमानलंकारः' इति साहित्यविद्याधरी