पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
षष्ठः सर्गः।

  तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् ।

  अपृष्ट एव स्फुटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥७३॥

 तस्मिन्निति ॥ अथ स प्रसिद्धः कोऽपि लोकोत्तरः रूपातिशयः सौन्दर्यातिशयः अपृष्ट एव स्वयमात्मनैव तां भैमीं स्फुटं प्रकटमाचचक्षे कथयति स्म । किं कुर्वन्--तस्मिन्सखीसमाजे सखीसमूहमध्ये सा प्रसिद्धा भैमीयं भविष्यतीति प्रतिसखि जातं नलस्य संदेहं व्युदस्यन्निराकुर्वन् । सहचर्यपेक्षया सौन्दर्यातिशयदर्शनादियं भैमीति नलेन स्वत एव ज्ञातमित्यर्थः । पूर्वेण संदेहस्वरूपेण नोदेयमिति बुद्ध्या अपृष्ट एव भविष्यसंदेहनिराकरणार्थमाचष्ट इति हेतौ शता । प्रथमं सखीसमूहदर्शने जाते आसु मध्ये का भैमीति संदेहे सत्यनन्तरं भैमीदर्शने जाते रूपातिशयः संदेहं निराकुर्वन्नपृष्ट एव भैमीमाचष्टेति वा व्याख्या। 'व्युदस्य' इति ल्यबन्तो वा पाठः[१]

  भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् ।

  नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम्॥७४॥

 भैमीति ॥ सखीभिः भैम्या विनोदाय मनोरञ्जनाय मुदा हर्षेण मणिवेदिकायां भुवि लेखितानां तदाकृतीनां नलप्रतिस्वरूपाणां मध्ये मणिवेदिकायामुदीतं स्फुटं जातमपि तस्य सत्यस्य नलस्यानुबिम्बं प्रतिबिम्बं ताभिर्नातर्कि न लक्षितम् । रचितनलप्रतिच्छन्दमध्ये सत्यमपि प्रतिबिम्बं प्रतिच्छन्दबुद्ध्या सत्यत्वेन न ज्ञातमित्य [२]र्थः॥

  हुताशकीनाशजलेशदूतीनिराकरिष्णोः कृतकाकुयाच्ञाः।

  भैम्या वचोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम्॥७५॥

 हुताशेति ॥ स नलः भैम्या वचोभिः दूरमत्यर्थम्, अथच दूरदेशं प्रयातामपि प्राप्तामपि निजां स्वीयां तदाशां भैमीसंबन्धिनीमाशां न्यवर्तयत् । किंभूताया भैम्याः--हुताशोऽग्निः, कीनाशो यमः, जलेशो वरुणः, तेषां दूतीः निराकरिष्णोर्निराकरणशीलायाः। किंभूता दूतीः-कृता काकुयाच्ञा दैन्यस्वरयुक्ता याचना याभिस्ताः । वह्न्यादित्रयदूतीनिराकरणेन पुनरपि भैमीप्राप्तावाशासहितो बभूवेत्यर्थः । वह्न्यादेरप्रधानत्वाद्दूतीवचनप्रकारो विस्तरेण नोक्तः । अन्यदपि दूरं प्रयातं वचनैः परावर्त्यते । दूतीः, 'न लोका-' इति षष्ठीनिषेधः[३]

  विज्ञप्तिमन्तःसभयः स भैम्या मध्येसभं वासवसम्भलीयाम् ।

  संभालयामास भृशं कृशाशस्तदालिवृन्दैरभिनन्द्यमानाम् ॥७६॥


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र मीलितमलंकारः । यदुक्तम्समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥' इति साहित्यविद्याधरी । 'अत्र च सामान्यालंकारः । तेन च भ्रान्तिमान्व्यज्यत इत्यलंकारेणालंकारध्वनिः' इति जीवातुः।
  3. 'अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी ।