पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

षा जाता इत्यर्थः । अनया बुद्ध्यायं द्वीपो जेतव्य इति । अत एवामुष्यैव रसनाग्रे जिह्वाग्रे नर्तकीव नर्तकी । नान्यस्येत्यर्थः । अष्टादश विद्या अस्यैव स्फुरन्ति स्मेत्यर्थः । नर्तक्यप्येका शिरोहस्तादिभिः षड्भिरङ्गैः, ग्रीवाबाह्वादिभिः षड्भिः प्रत्यङ्गैः, भूनेत्रादिभिः षड्भिरुपाङ्गैः, विस्तरं नीताष्टादशधा भवति । तथा विद्यापि चतुर्दश । पूर्वोक्ताः 'आयुर्वेदो धनुर्वेदो गान्धर्वश्चार्थशास्त्रकम्' इति चतस्रः । एवमष्टादश । द्वीपानामष्टादशत्वमवान्तरलङ्कासिङ्घलकादिभेदेन भागवतोक्तरीत्या 'अष्टादशद्वीपनिखातयूपः' इति कालिदासोक्त्या च ज्ञातव्यम् । यद्वा--नवद्वयद्वीपानां भिन्ना या जयजनिता नलस्य श्रियस्तासां जेतुमिच्छया वेति १लुप्तोत्प्रेक्षा । नलेनाष्टादश द्वीपा जितास्तेन तस्य तावत्यः श्रियो जातास्तासां जेतुमिच्छया विद्याप्यष्टादशतां प्राप्ता । श्रीसरस्वत्योः सहजविरोधात्सपत्न्योरिव । केव । २अङ्गगुणेन षट्संख्यागुणनेन विस्तरं नीता विस्तारं प्राप्ता त्रयी त्रित्वसंख्याष्टादशत्वं प्राप्नोति । ज्योतिःशास्त्रे त्रित्वं षट्संख्यया गुणितमष्टादशतां लभते । तत्राङ्गशब्देन षट्संख्या गृह्यते । तया गुणनमावृत्तिः । यद्वा-त्रय्युद्धारोऽथर्ववेदः। स एकः, षडङ्गानि व्याकरणादीनि, गुणा अप्रधानानिपुराणन्यायमीमांसाधर्मशास्त्रायुर्वेधनुर्वेदगान्धर्ववेदार्थशास्त्रलक्षणान्यष्टौ । तैर्विस्तरं नीता वेदत्रयी यथा । अङ्गानि च गुणाश्चैतेषां समाहारोऽङ्गगुणं तेन । अथ च-स्वादुरसोत्पादनप्रकारकथनद्वारा श्रुता सती लोकस्य रसनाग्रं जिह्वाग्रं नर्तयतीति रसनाग्रनर्तकी नलसूपकारविद्याङ्गानामवयवानां मधुराम्ललवणतिक्तकटुकषायाख्यानां षण्णां रसानां न्यूनाधिकसमत्वरूपेण गुणेनाष्टादशतां प्राप । यथा-मधुरद्रव्ये मधुरद्रव्यान्तरस्य न्यूनः प्रक्षेपः, तिक्तेऽधिकः, अम्ले समः, इत्यनेन प्रकारेण सर्वरसानां त्रैविध्येऽष्टादशत्वम् । यद्वा-अङ्गानां दुग्धदध्यादीनाम् । तथा च सूपशास्त्रम्-'दुग्धं दधि नवनीतं घोलघने तत्र मस्तुयुगम् । मध्वाटविकहविष्यं विदलान्नं चेति विज्ञेयम् ॥ कन्दो मूलं शाखा पुष्पं पत्रं फलं चेति । अष्टादशकं मांसं भक्ष्याण्युक्तानि गिरिसुतया ॥' इति । दध्युदकं मस्त्वित्युच्यते, कणिशभवं व्रीह्यादि, शिम्ब्यादिभवं मुद्गादि, घण्टकभवं चणकादि । इदं त्रिविधं ते 'पुर । भूचरस्त्रेचरजलेचरभेदात्रिविधं मांसम् । षड्रसाः । कन्दमूलफलनालपत्रपुष्पफलमयं पड्विधं शाकम् । इत्येवं धान्याद्यङ्गगुणेन विस्तरं नीता इति केचित् । द्यूतावेशेन बहुभाषिणो नलस्य जिह्वाग्रनर्तकी विद्याक्षविद्या द्विकादीनां गुणेन तद्वशेन विस्तरं नीताष्टादशतां प्राप । चतुरङ्गद्यूते हि द्विकत्रिकचतुष्कपञ्चकैर्मिलितैश्चतुर्दश भवन्ति । तथा चोडीयकचतुष्टयमेलनादष्टादश भेदा इति केचित् । सूपशास्त्रविदष्टादशद्वीपजिच्चायमित्यर्थः । नर्तकीत्यत्र 'शिल्पिनि प्वन्' । षित्त्वान्डीषू । जिगीषयेत्यत्र 'अः प्रत्ययात्' इत्यप्रत्यप्रत्ययः । विस्तरमित्यत्र -अशब्दे' इति [घञः,] निषेधात् 'ऋदोरप्' । त्रयीत्यत्र त्रित्वसंख्या इति पक्षे विस्तर इव विस्तरः । तमित्युपचारः३॥


१ 'व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा' इति मल्लिनाथविरचितजीवातुव्याख्या। २ 'अङ्गविद्यागुणनेन त्रय्या अष्टादशत्वम्' इत्युपाध्यायविश्वेश्वरभट्टारकव्याख्याने तु 'अङ्गानि वेदाश्चत्वारः' इत्याथर्वणस्य पृथग्वेदत्त्रे त्रयीत्वहानिः, त्रय्यनन्तर्भावे तु नाष्टादशत्वसिद्धिरिति चिन्त्यम्-इति जीवातुः । ३ 'अत्रोपमालंकारः। जिगीषयेत्यत्राध्यवसायस्य सिद्धत्वादतिशयोक्तिरलंकारः' इति साहित्यविद्याधरी