पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
पष्टः सर्गः।

 स्तुताविति ॥ हे दूति, 'लोकस्रजि द्यौः-' इत्यादि मघोनः स्तुती साहसिक्यमवि- चार्यकारित्वं त्यज मुश्च । वर्णयितुमशक्यस्य तस्य वर्णनं त्वं मा कार्षीः । कुतः साह- सिकत्वमित्यत आह-तं शक्रं वक्तुं वर्णयितुं यदि वेद जानाति, तर्हि वेदः कियत्किं- चिद्वेद नान्यः । मानुषस्य का कथेत्यर्थः । तस्य वर्णनं त्वं करोपीति महत्साहसं तवे- त्यर्थः । तस्य वर्णनं न कार्यम् । नृणां हृत्सु साक्षिणि मनुष्यहृदयविज्ञे तस्मिन्निन्द्रे अ्- ज्ञातारमजानानं विज्ञापयति बोधयत्येवंशीलं ममाप्युत्तरं प्रतिवचनं मृषा अर्थाद्व्यर्थमेव । एवंविधमुत्तरमज्ञातारमेव प्रति सार्थकम् , नतु सकलहृदयवेदिनं प्रतीत्यर्थः । त्वत्कृत- वर्णनं मृषा, 'मया मनसि धृतं नलमिन्द्रोऽपि जानातीति प्रत्युत्तरं वृथेत्य[१]र्थः ॥

  आज्ञां तदीयामनु कस्य नाम नकारपारुष्यमुपैति जिह्वा ।

  प्रह्वा तु तां मूर्ध्नि विधाय मालां बालापराध्यामि विशेषवाग्भिः ॥ ९२ ॥

 आज्ञामिति ॥ कस्य नाम जिह्वा तदीयामैन्द्रीमाज्ञामनु लक्षीकृत्य न करोमीत्येतद्रूपं पारुष्यं काठिन्यमुपैतु प्राप्नोतु, अपितु न कस्यापि । सर्वैरपि तदाज्ञा क्रियत एवेत्यर्थः । तु पुनः प्रह्वा नम्रा सती बालाऽहं तामाज्ञां मालामाज्ञारूपां मालां मूर्ध्नि विधाय शिरसा स्वीकृत्य, अथ च नमस्कृत्य, विशेषवाग्भिविशेषवचनैरपराध्यामि । अदेवदेहमिन्द्रं वृणे' इत्यादिवचनैः देवदेहं न वृण इति निश्चितत्वादपराध इत्यर्थः । 'अज्ञत्वादाज्ञाया अकरणेऽप्यपराधो न मन्तव्य इति बालापदेन सूचितम् । भूमीन्द्रवरणात्कियत्याज्ञा- ङ्गीकृतेत्यर्थः । मालापि मूर्ध्नि विधी[२]यते ॥

  तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियु ङ्क्ते ।

  भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यसर्जि ॥ ९३ ॥

 तप इति ॥ इयमीहशी हरेः कृपा तपःफलत्वेन महतस्तपसः फलं परिपाकः, तत्त्वेन इमं मल्लक्षणं जनं स्वकारणे तपस्येव नियुङ्क्ते प्रेरयति । येन तपसेयं कृपा लब्धा तत्तप एव त्वया कर्तव्यमिति मामाज्ञापयतीत्यर्थः । तपसः फले जाते पुनरपि तपस्यैव कि-. मिति प्रवर्तयतीत्याशङ्क्याह-हि यस्मादुपेयस्य फलस्य माधुर्य श्रेष्ठत्वमुपायं स्वसाधनं प्रत्युद्दिश्य प्रवृत्तौ अधैर्यकारि भवति । येनेदं फलं लब्धम् , तदेव पुनरपि कर्तव्यमिति पुरुषं स्वसाधने लम्पटं करोति । अत इयं कृपा तपस्येव प्रेरयतीत्यर्थः । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । यथा तपसोपायेनात्यन्तदुर्लभापीन्द्रकृपा प्राप्ता, तथैव तपसा नलप्राप्तिर्भविष्यतीति निश्चयात्तपसि मां पुनः प्रवर्तयतीति भावः । नियुङ्क्ते, 'स्वराद्यान्तोपसृष्टात्' इति वक्तव्यात्तं[३]ङ् ॥

 किं तत्तप इत्यत आह---

  शुश्रूषिताहे तदहं तमेव पति मुदेपि व्रतसंपदेपि ।

  विशेषलेशोयमदेवदेहमंशागतं तु क्षितिभृतयेह ॥ ९४ ॥


  1. अत्र काव्यलिङ्गमलंकारः इति साहित्यविघाधरी
  2. अत्र काव्यलिङ्गमलंकारः साहित्यविघाधरी इति
  3. अत्रार्थान्तरन्यासोलंकारः इति साहित्यविघाधरी