पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
नैषधीयचरिते

 शुषिताह इति ॥ यस्मादियमैन्द्री कृपा तपस्येव मां नियुङ्क्ते, तत्तस्मादहं मुदेपि हर्षार्थ व्रतसंपदेपि नियमसमूहसिद्ध्यर्थं च तमिन्द्रमेव पतिं प्राणेशं शुश्रूषिताहे तस्यैव सेवां कर्तुमिच्छति । तर्हि अस्माकं मनोरथेन फलितमित्यत आह-अयं तु अयं पुनः विशेषलेशः स्वल्पो विशेषः इह भुवि क्षितिभृत्तया राजत्वेनांशेनागतं राज्ञो लोकपालांशत्वस्मरणादेवंविधमदेवदेहं मनुष्यशरीरम् । इन्द्रांशं भूमीन्द्रं नलमेव वृणे, नतु देवदेहमिन्द्रमिति भावः । शुश्रूषिताहे, 'ज्ञाश्रुस्मृदृशां सनः' इति तङ् । उत्तमैकवचने टेरेत्वे 'ह एति' इति तासेः सस्य [१]हः ॥

  अश्रौषमिन्द्रादरिणीगिरस्ते सतीव्रतातिमतिलोमतीव्राः ।

  स्वं प्रागहं प्रादिषि नामराय किनाम तस्मै मनसा नराय ॥९५॥

 अश्राषमिति ॥ हे दूति, अहं ते तव गिरोऽश्रौषम् । किंभूता गिरः-इन्द्रे आदरोऽस्त्यासां ताः । तथा-सतीव्रतस्य पतिव्रताव्रतस्य अतिप्रतिलोमा अतिप्रतिकूलाः, अत एव तीव्रा दुःसहाः । अनुचितमेतन्मया कृतमिति शेषः । अनूढायाः सतीत्वाभावाद्द्रतलोपः कुतस्तरामित्यत आह-अहं स्वं आत्मानं मनसान्तःकरणेन प्राक्पूर्वं अमराय देवेन्द्राय न प्रादिषि दत्तवती, किं नाम किं तर्हि-नराय मनुष्याय तस्मै इन्द्राय इन्द्रांशत्वाद्भूमीन्द्राय मनसा आत्मानं दत्तवती, अथच रलयोरभेदात्तस्मै प्रसिद्धाय नलाय । 'मनः पूर्वरूपम् , वागुत्तररूपम्' इति श्रुतेः कायिकवाचिकयोर्मनःपूर्वकत्वान्मानसस्यैव विवाहस्य मुख्यत्वादन्तःकरणेन पूर्वमेव नलस्य वृतत्वान्मम सतीत्वम् । सत्या च परपुरुषकथापि नाकर्णनीया, सा च मयाकर्णितेत्यनुचितं कृतमिति भावः। प्रादिषि, दाञो लुङ्युत्तमपुरुषैकवचने 'स्थाध्वोरिश्च' इतीत्त्वकित्त्वे ॥

  तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिकाभूत् ।

  निर्वातुकामं भवसंभवानां धीरं सुखानामवधीरणेव ॥ ९६ ॥

 तस्मिन्निति ॥ तस्मिन्नले विमृश्यैव विचायैव हृदा मनसा वृते सति एषा दया मामनुतापिका पश्चात्तापयिष्यन्ती मा भूत् । यदि मया नलः पूर्व न वृतः स्यात्, तर्हीदानीमिन्द्रो व्रियेत । पूर्वमविचार्यैवाहं नलं वृतवती, अनुचितमेतत्कृतमिति पश्चात्तापो न विद्यत इत्यर्थः। का कमिव-भवे संसारे संभव उत्पत्तिर्येषां सुखानामापातरमणीयानामवधीराणा अवज्ञा निर्वातुकामं मुमुक्षु धीरमिव यथा न संतापयति । कस्मिन्सतितस्मिंस्तच्छब्दवाच्ये ब्रह्मणि हृदा विमृश्येवाङ्गीकृते सति । विषया मया वृथा त्यक्ता इति यथा धीरो न तप्यते तथाहमपि न तप्ये इत्यर्थः । मोक्षसुखस्य संसारसुखस्य च यावदन्तरं तावन्नलेन्द्रयोरिति भावः। मामनुतापिका, भविष्यदकेन योगे 'अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्ठीनिषेधाद्द्वितीया ॥

 'मुदेपि व्रतसंपदेपि' इत्युक्तं विवृणोति---

  वर्षेषु यद्भारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।

  तत्रास्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥१७॥


  1. 'अत्र हेतुरलंकारः' इति साहित्यविद्याधरी ।