पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
नैषधीयचरिते

 स्वर्गवाञ्छा सर्वथा न कर्तव्येत्याह-

  प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः।

  बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः ॥१००॥

 प्रक्षीण इति ॥ यः स्वर्गः कर्मकृष्टे कर्माजिते आयुषि प्रक्षीण एव नितरां क्षीणे सत्येव नरानुपतिष्ठते तैः संगतो भवति । तिष्ठति आयुषि नोपतिष्ठते प्राप्नोति । न तिष्ठति स्थिरो भवतीति वा । क्षणमात्रं न प्रतीक्षते पुनरप्यधोगामित्वात् 'क्षीणे पुण्ये-' इति भगवद्वचनात् । 'कर्मकृष्टेः' इति पाठे पुण्यक्षयादित्यर्थः । धीरः क आपातसुखोन्मुखमविचारितरमणीयसुखकारिणम् । प्रथमान्तपाठे' अविचारितरमणीयसुखोद्युक्तः, अपथ्यकल्पमपथ्यतुल्यं तं नाकं बुभुक्षते भोक्तुमिच्छति, अपितु न कोऽपि । तस्मान्नल एव वरणीयो न विन्द्र इति भावः । उपतिष्ठते, 'उपाद्देवपूजा-' इत्यादिना संगतिकरणे तङ् । पथोऽनपेतं पथ्यम् 'धर्मपथ्यर्थ-' इति यत् । ततो नन्समासे ईषद्समाप्तौ कल्पः[१]

  इतीन्द्रदूत्याः प्रतिवाचमधे प्रत्युह्य सैषाभिदधे वयस्याः ।

  किंचिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रदलपङ्कजास्याः ॥ १०१॥

 इतीति ॥ इन्द्रदूत्या इति एवंप्रकारां प्रतिवाचं प्रत्युत्तरं अर्धे मध्य एव प्रत्युह्य समाप्य सैषा भैमी वयस्याः सखीरभिदधे उवाच । किंभूताः-किंचिद्विवक्षया इन्द्रवरणानुगुणं किंचिद्वक्तुमिच्छया उल्लसन्तौ स्फुरन्तौ, यौ ओष्ठौ तयोः लक्ष्म्या शोभया जितमपनिद्रद्दलं विकसत्पत्रं पङ्कजं येन एवंविधमास्यं यासां ताः । तस्याः प्रत्युत्तरं त्यक्त्वा मध्ये सखीनिषेधार्थमवदित्यर्थः। ओष्ठौ पद्मदलाधिकौ, मुखं पद्माधिकमित्यर्थः । प्रत्युह्य 'उपसर्गाद्रस्व ऊहतेः' इति ह्रस्वः । अपगता निद्रा येभ्यस्तान्यपनिद्राणीवाचरन्तीति 'सर्वप्रातिपदिकेभ्यः-' इति क्विम् । तदन्ताच्छता[२]

  अनादिधारावस्त्रपर..... हेतुस्रजः स्रोतसि वेश्वरे वा।

  आयतधीरेष जनस्तदार्याः किमीदृशः [३] पर्यनुयोगयोग्यः ॥१०२ ॥

 अनादीति ॥ अनादि आदिरहितं यथा तथा धाविन्या भ्रमन्त्याः पुनःपुनरावर्तमानायाः स्वस्थ जीवात्मनः शरम्परायाः पङ्क्तेर्हेतूनां कारणानामदृष्टलक्षणानां शुभाशुभकर्मणां स्रजो मालायाः स्रोततिस प्रवाहे ईश्वरे वा एष सकलो लोको मल्लक्षणो वा यस्मादायत्ता प्रवाहाधीना ईश्वराधेशीना वा बुद्धिर्यस्य एवंभूतोऽस्ति । तस्माद्भो आर्या बुद्धिमत्यः सख्यः, ईदृशः पराधीनः सकलो मल्लक्षणो वा जनः त्वमेवं चिकीर्षसीति पर्यनुयोग आक्षेपः प्रश्नो वा तद्योगयः तदर्हः किम्, अपितु न भवति । अदृष्टमीश्वरो वा


  1. अत्रोपमालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी
  3. ‘पर्यनुयुज्य कार्यः' इति पाठमङ्गीकृत्य पर्यनुयुज्य उपालभ्य, परिपृच्छय वा कार्यः कारयितुं शक्यः' इति व्याख्यातं तिलकजीवातुसाहित्यविद्याधरीषु