अन्तर्वरं वरस्य नलस्य अन्तर्मध्ये वनिणि राज्ञो लोकपालांशत्वेन नले स्थित इन्द्र इति वा। नले तुष्टे इन्द्रोऽपि परितोक्ष्यत्येवेति भावः । 'आगोऽपराधो मन्तुश्च' इत्यमरः । माजितेति 'मृजेर्वृद्धिः' इति वृद्धिः । ऊदित्त्वादिट्र्[१] ॥
इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य जीवः पुनः क्षीबमिव प्रबोधः॥१११॥
इत्थमिति ॥ इत्थमनेन प्रकारेण पुनः वागवकाशस्य वचनावसरस्य नाशान्महेन्द्रदूत्यामपयातवत्यां गतायां सत्यां नलस्य जीवः प्राणः भैमी च दूत्यं च-'इत्यादिचिन्तावशात् लोलं चञ्चलं हृदयं पुनः विवेश । कः कमिव-प्रबोधः क्षीबं मत्तमिव । तस्यां सत्यां चिन्तावशात्तस्य प्राणा गतप्राया एवाभूवन् । गतायां तु स्वस्य भैमीप्राप्तिनिश्चयेन दूत्यप्राप्तिसंभावनया वा तस्य प्राणाः पुनरागता इत्यर्थः । मत्तोपि चञ्चलो भवति । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'अनुर्पसगात्फुल्लक्षीब-' इति साधुः[२]॥
श्रवणपुटयुगेन खेन साधूपनीतं
दिगधिपकृतयाप्तादीदृशः संवि[३]धानात् ।
अलभत मधु बाला रागवागुत्थमित्थं
निषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥ ११२ ॥
श्रवणेति ॥ निषधजनपदानाम् इन्द्रो नलः बाला भैमी तस्या रागवागनुरागवचनं, तस्मादुत्थमुत्पन्नं इत्थं पूर्वोक्तं मध्वमृतं पातुं सादरमाकर्णयितुमानन्दसान्द्रं यथा भवति तथा लब्धवान् । किंभूतं मधु-दिगधिप इन्द्रः, तस्य कृपया प्राप्तात् ईदृशः दूत्याङ्गीकारप्राप्तात्संविधानाददृष्टीकरणलक्षणादुपायाद्धेतोः स्वेन स्वीयेन श्रवणलक्षणेन पुटयुगेन पात्रयुगेन साधु सम्यक्प्रकारेण उपनीतमानीतम् । स्वयमाकर्णितमित्यर्थः। 'आनन्दसान्द्रः' इति पाठे नलविशेषणम् । पूर्वोक्तं भैम्यनुरागवचनमानन्दसहितः सादरमाकर्णयामासेत्यर्थः । प्रभुणा केनचित्स्वकीयेन पात्राभ्यामानीतं मधु पीयते । इन्द्रादयो मह्यं दूत्यं चेन्नादास्यंस्तर्हि भैम्यनुरागवचनमहं स्वयं नापास्यम् । अतस्तत्प्रसादान्मया भैमीवचनं स्वयमाणितमित्यानन्देन सान्द्र [४]इत्यर्थः ॥
श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोपि सहजात्क्षोदक्षमे तन्महा-
काव्येऽयं व्यगलन्नलस्य चरिते सगों निसर्गोज्ज्वलः ॥६॥