पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
सप्तमः सर्गः।

भूपतेः सकाशात्प्रभूता उत्पन्नेति जानामि । वाक्यार्थः कर्म । प्रथमं सहजसौन्दर्याच्छृगाररूपा जाता, अनन्तरं निबिडयौवनेन सौन्दर्याधिक्यजननादुच्चकुचत्वजननाच्च पूर्वापेक्षया शृङ्गाररसस्याधिक्यात् शृङ्गाररसस्य मूर्तिमतीयं नदीति मन्य इति भावः। अथच रसस्योदकस्य नदी पर्वतादुत्पद्यते । तस्यामुच्चैः स्तनता शब्दायमानेनातितरां गर्जता घनेन मेघेन पूर्वं जलप्रवाहो जलोद्रेकोपि जन्यते । तथानिर्वचनीयप्रकारा या उच्चस्तनता तया कृत्वा धनेन निरन्तरेणेत्येकं पदं, यौवनविशेषणं वा । 'पूरो जलप्रवाहे स्यात्' इति विश्वः । भूमिभृतः, 'भुवः प्रभवः' इत्यपादानत्वम् । प्रभूता, अकर्मकात्कतरिक्तः[१]

  अस्यां वपुयूहविधानविद्यां किं द्योतयामास न[२] वां स कामः ।

  प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥ १२ ॥

 अस्यामिति ॥ अङ्गमङ्गं प्रति प्रत्यङ्गं प्रत्यवयवं यः स्वस्यैव लावण्यस्य सङ्गः संवन्धः तेन कृत्वा स्फुटं व्यक्तं लब्धो भूमा प्राचुर्य यया एवंभूता लावण्यसीमा सौन्दर्यपरमकाष्ठा यद्यस्मादिमां भैमीमुपास्ते सेवते तस्मात्कारणाद्बाल्यापेक्षया नवां नूतनां स कामः तदैवापूर्वामभ्यस्तां वपुयूहस्य शरीरसमूहस्य विधानं निर्माणं तस्य विद्यां शास्त्रं कायव्यूहरचनाकौशलं अस्यां भैम्यामेव किं द्योतयामास प्रकाशयामास । न त्वन्यस्यामित्यर्थात् । किं वितकै । बाल्यापेक्षया तरुणिमन्यधिक सौन्दर्यं भवति सकलावयवेषु साकल्येन सौन्दर्यसीमा भैम्यामेव विद्यते, नान्यस्यामिति भावः । प्रत्यङ्गसङ्गमवयवसंधिम् । अवयवसधिं प्रतीति वा । अस्यामित्यनेन भैम्या वैदुष्यं सूच्यते । विद्याप्रकाशनं हि विद्वत्समीपे भवति । स मदनोऽस्यां नवामपूर्वां कायन्यूहनिर्मा- णविद्यां द्योतयामास किम् , यस्मात्सौन्दर्यस्य परमा काष्ठा स कामः प्रत्यङ्गविद्यमा- नत्वेन प्राप्तो भूमा बाहुल्यं येनैवंविधः सनिमां भैमी सेवते । प्रत्यवयवं साकल्येन मदनस्य विद्यमानत्वान्मदनेन स्वीयं बहुरूपत्वं प्रकटीकृतमित्यर्थः । मुखावलोकनेन यादृशो मदनप्रादुर्भावो भवति तादृशं एव नयनावलोकनेनेति तदीयैकैकावयवदर्शनेन सकलस्य साकल्येन मदनप्रादुर्भावो भवतीत्यर्थः । लब्धभूमेत्यादौ पक्षे 'मनः' इति निषेधान्ङीबभावः[३]

  जम्बालजालाकिमकर्षि जम्बूनद्या न हारिद्रनिभमभेयम् ।

  अप्यङ्गयुग्मस्य न सङ्गचिह्नमुन्नीयते दन्तुरता यदत्र ॥ १३ ॥

 जम्बालेति ॥ इयं भैमी जम्वूनद्या जम्बूफलरसजातनद्या जम्बालजालात्पङ्कसमूहात्किं नाकर्षि आकृष्टा, अपितु तत एवाकृष्टा । यद्यस्माद् हारिद्रनिभप्रभा हरिदारक्तव-


  1. 'अत्राति-शयोक्तिरूपकश्लेषालंकारः' इति साहित्यविद्याधरी । 'यौवनेन घनेनेति व्यस्तरूपकम्, उच्चैस्तनता घनेनेति शब्दश्लेषः, तदुत्थापिता च भैम्याः शृङ्गारतरङ्गिण्युत्प्रेक्षैति संकरः' इति जीवातुः
  2. 'नवामवाप्ताम्' इति पाठो जीवातुसुखावबोधासाहित्यविद्याधरीसंमतः । तत्र 'सामर्थ्याद्ब्रह्मणः कर्तुरध्याहारः' इति जीवातुः । 'लावण्यसीमा कर्त्री' इति सुखावबोधासाहित्यविद्याधर्यौ
  3. 'अत्रोत्प्रेक्षानुप्रासोलंकारः' इति साहित्यविद्याधरी ।