पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
नैषधीयचरिते

स्त्रतुल्यकान्तिः । जम्बूनद्या जम्बालजालं नाम जाम्बूनदं तच्चान्यसुवर्णापेक्षयात्युत्त- मम्, तत आकृष्टा तदैव हरिद्रातुल्यवर्णत्वं घटते नान्यथेत्यर्थः । हारिद्रं सुवर्ण वा। अपिशब्दो हेत्वन्तरं विशिनष्टि यदपि अत्रास्यां भैम्यामङ्गयुग्मस्य हस्ताद्यवयवयुगलस्य सङ्गचिह्नं परस्परसंधिलाञ्छनं दन्तुरता लक्षणया विसंस्थुलता निम्नोन्नतता नोन्नीयते न तर्क्यते । यद्धि जम्बालजालादाकृष्यते तस्योच्चावचप्रदेशेषु पङ्कलग्नत्वाद्विसंस्थुलता न लक्ष्यते । भैम्यामपि तथा यतः, ततोपीयं जाम्बूनदपङ्कादाकृष्टत्यनुमीयते । अवयवसं-. धिसूचकं कूपरादि भैम्या न लक्ष्यते, सुवर्णगौरी चेयमिति भावः । कूर्परादेरलक्ष्यत्वेन सामुद्रिकलक्षणवत्त्वं सूच्यते । यदित्युभयत्रापि संबध्यते । पूर्वार्धे हारिद्रपदेन योजना, उत्तरार्धे यथास्थितम् । मध्यस्य स्तनयोश्चाङ्गयुग्मसङ्गाभावो ज्ञातव्यः, नो चेन्मध्यस्य परमाणुरूपत्वात्स्तनयोश्च उच्चस्त्वाजाम्बूनद्जम्बालपूर्णत्वेनैते मुदिताः स्युरित्यादि ज्ञातव्यम्[१]

  सत्येव साम्ये सहशादशेषागुणान्तरेणोच्चकृषे यदङ्गैः ।

  अस्यास्ततः स्यात्तुलनापि नाम वस्तु त्वमीषामुपमापमानः॥१४॥

 सत्येवेति ॥ यत् अङ्गैर्भैम्या अङ्गैर्मुखाद्यवयवैरर्थाद्गणान्तरेण वृत्तत्वादिना गुणेन चन्द्रादिना, समं साम्ये सत्येव सदृशात्कविसमये मुखादेः सदृशत्वेनोपमानत्वेनाभिमताञ्चन्द्रादेरशेषात्सकलाद्वस्तुनः सकाशाद्गुणान्तरेण केनचिद्गुणान्तरेणान्येन गुणेन कृत्वा यद्यस्माद् उच्चकृषे उत्कृष्टैर्जातम् । ततस्तस्मादर्थात् अस्या अङ्गैः कृत्वा सदृशस्य चन्द्रादेर्वस्तुनः तुलनापि समीकरणमपि तैः सह साम्यं वा स्यान्नाम । कविसमये सर्वत्रोपमानस्याधिक्यम्, उपमेयस्य च न्यूनत्वं प्रसिद्धम् । तथा चान्यत्र रमणीयमुखाद्यपेक्षया चन्द्रादेराधिक्याटुपमानत्वम्, मुखादेश्च न्यूनत्वादुपमेयत्वं घटते । अस्यास्तु मुखं यद्यपि वर्तुलत्वेन चन्द्रेण समानं तथापि चन्द्रापेक्षयाधिकामृतयुक्तत्वेनाधिकगौरत्वेन कलङ्काभावेन च चन्द्रादधिकम् । नेत्रे अप्याकारेण नीलिम्ना च यद्यपि नीलोत्पलदलेन समाने तथापि नीलोत्पलदलस्य कटाक्षविक्षेपादिराहित्येन स्वस्य तत्साहित्येन नीलोत्पलदलापेक्षयाधिके । एवमोष्ठादेरपि केनचिद्गुणेन साम्ये सत्येव गुणान्तरेण बन्धूकाद्यपेक्षयाधिक्यं द्रष्टव्यम् । तथा च चन्द्राद्यपेक्षयाधिक्येनैतदीयवदनाद्यङ्गानामुपमानत्वम् चन्द्रादेश्चैतदीयवदनाद्यपेक्षया न्यूनत्वेनोपमेयत्वमिति चन्द्रो भैमीमुखसदृशो, नीलोत्पलं च भैमीनयनसदृशमिति । एवं सदृशस्य चन्द्रादेर्भैमीवदनादिना समीकरणं साम्यं वा भवेदपि, भैमीवदनादेरुपमानत्वं चन्द्रादेश्वोपमेयत्वं युक्तमेवेत्यर्थः । अमीषामेतदीयानामङ्गानां तु पुनः वस्तु चन्द्रादिलक्षणमुपमा उपमानं अपमानो धिकार एव, अर्थादमीषामेव । हीनस्योपमानत्वाभावात्, अधिकस्योपमेयत्वाभावादिति भावः । यत उच्चकृषे ततो हेतोरस्या भैम्यास्तुलनापि स्यान्नाम । साम्यं विनो- त्कर्षों न सिध्यतीति साम्यमप्यस्तु नाम वस्तु तु परमार्थतस्तु अमीषामङ्गानामुपमानं तिरस्कार इति वा । उपमीयतेऽनेनेत्युपमानं वा 'उपमा' इति करणे भावे वा 'आतश्योपसर्गे' इत्यङ्[२]


  1. 'अत्रानुपमानमलंकारौ (?) अनुप्रासोपि' इति साहित्यविद्याधरी
  2. 'अत्र प्रतीपमलंकारः' इति साहित्यविद्याधरी।