पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
सप्तमः सर्गः।

  पुराकृति स्त्रैणमिमां विधानुमभूद्विधातुः खलु हस्तलेखः ।

  येयं भवद्भाविपुरंभिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् ॥ १५ ॥

 पुरेति ॥ पुरा प्रथमं कृतिनिर्माणं यस्यैवंभूतं प्रथमनिर्मितं स्त्रैणं रम्भोर्वश्यादि इमां भैमी विधातुं स्रष्टुं विधातुः खलु निश्चितं हस्तलेखः प्रथमोभ्यासोऽभूत् । अन्योऽपि शिल्पी प्रथमं हस्तलेखाः कृत्वा पश्चात्सुन्दरं वस्तु निर्माति । उत्तरशिल्पापेक्षया हस्तलेखस्यातिहीनत्वाद्भैमीजन्मनः पूर्वं यः स्त्रीसमूहो हस्तलेखोभूत्स भैम्यपेक्षयातिहीनः भैमी चातिसुन्दरीति भावः । ननु यन्निर्माणार्थमभ्यासः कृतः सा निमिता, अग्रिमसृष्टिः किमिति कृता इत्याशङ्क्याह-या इयं भवन्ती वर्तमाना भाविनी भविष्यन्ती च पुरंध्रिसृष्टिः स्त्रीनिर्मितिः सा अस्यै भैम्यै तज्जयजं तस्या भवद्भाविपुरंध्रिसृष्टेः भैमीकर्तृको यो जयस्तस्माजातं यशः प्रदातुं, न त्वन्यत्किमपि प्रयोजनमस्ति, तस्या भैम्यपेक्षयातिहीनत्वात्, मयापीदृशी निर्मातुं न शक्यत इति सर्वाञ्ज्ञापयितुं ब्रह्मणा भैमीजमानन्तरमपि स्त्रीनिर्मितिः कृता । अकरणे तु भैम्यनन्तरं चेदन्यां स्त्रियं धाता निरमास्यत, तर्ह्येतदपेक्षयापि सा रमणीयाभविष्यदिति लोकस्य संभावना भवेत् , तन्निवारणार्थ ब्रह्मणैवं कृतमित्यर्थः । भूतभविष्यद्वर्तमानेषु भैमीसदृशी कापि नास्तीति भावः । खलु उत्प्रेक्षायां वा । पुरंध्रीति 'ड्यापोः संज्ञा-' इति वाहुलकाद्रस्वः । ह्रस्वान्त एव वा । भवद्भावीति प्रागेव स्त्रीत्वविवक्षया द्वंद्वं कृत्वा पुरंध्रिशब्देन यथाकथंचित्कमधारयः । अन्यथा भवन्तीभावीति स्यात् । 'द्रुतमध्यविलम्बितासु'[१] इति भाष्यकारप्रयोगस्य सामान्यापेक्षज्ञापकतया वा समर्थनीयम् [२]

  भव्यानि हानीरगुरेतदङ्गाद्यथा यथानर्ति तथा तथा तैः ।

  अस्याधिकस्योपमयोपमाता दाता प्रतिष्ठां खलु तेभ्य एव ॥१६॥

 भव्यानीति ॥ भव्यानि शोभमानानि चन्द्रादीनि वस्तूनि एतस्या वदनाद्यङ्गात् सकाशात् यथा यथा येन येन प्रकारेण यावद् यावद् हानीरपकर्षान् अगुः प्रापुः । तैश्चन्द्रादिभिः तथा तथा तावत्तावत् अनर्ति नृत्तम् । अपकर्षप्राप्तावपि कथं नृत्तमत आह-खलु यस्मादधिकस्योत्कृष्टस्य (अस्य) एतदीयाङ्गस्य उपमया साम्येन उपमाता कविः न्यूनेभ्योऽपि तेभ्यश्चन्द्रादिभ्य एव प्रतिष्ठां माहात्म्यं दाता दास्यति । भैमीमुखसदृशश्चन्द्रादिरिति वर्ण्यमानास्तदुपमेयताप्रतिष्ठाप्राप्त्या अधिकानि भैम्यङ्गान्यसाकमुपमानानि वयं धन्या इति उत्तमोऽस्माकं प्रतियोगीत्यानन्देन नृत्यन्तीति भावः । भैमीमुखं किंवदिति पृष्टे चन्द्रस्य न्यूनत्वेप्यन्यस्योपमानस्याभावाञ्चन्द्रवदित्येव वक्तव्यं स्यात् । एवं नयनादावपि द्रष्टव्यम् । 'ग्लाम्लाज्याहाभ्यो निः' । अगुः, 'इणो गा लुङि' इति गादेशे 'गातिस्था-' इति सिचो लुक् । दाता इति लु[३]टि ॥


  1. 'वृत्तिषु' इति विशेष्यम् ।
  2. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्र हानिगमननर्तनक्रियाविरोधालंकारः' इति साहित्यविद्याधरी।