स्थेन पुष्पैः पूज्यते, यश्च हीन उत्तमेन सह स्पर्धते स भर्त्स्यते गलहस्त्यते चेति । अगाताम् , 'इणो गा लुङि' इति गादेशः[१] ॥
भालं वर्णयति-
केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् ।
एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥२३॥
केशेति ॥ केशलक्षणादन्धकारात् अथानन्तरमधोदेशे दृश्यो दर्शनविषयो रमणीयश्च भालस्थललक्षणो ललाटपट्टलक्षणोऽर्धचन्द्रो यस्याः, अथ च भालस्थलेऽर्धचन्द्रा- कारस्तिलकविशेषो यस्याः सा इयं भैमी स्फुटं प्रकटमष्टमी । कृष्णाष्टमीरूपेयमित्यर्थः । कृष्णाष्टम्यपि प्रथमयामद्वयान्धकारानन्तरं दृश्यार्धचन्द्रा भवति । अत एव एनामासाद्य प्राप्य स्वयंवरे जगतो जयाय मनोभुवा कामेन सिद्धिर्जगद्वशीकरणलक्षणा यदसाधि साधिता तत्साधु युक्तमेव । अतिसुन्दर्या भैम्या कृत्वा मदनेन जगद्वशीकृतमित्यर्थः । कृष्णाष्टम्यां जगद्वशीकर्तुं गुटिकादिसिद्धिः साध्यते । अर्धचन्द्राकारभालस्थलेयमित्यर्थः । एतेन ललाटसौन्दर्य सामुद्रिकलक्षणवत्त्वं च सूचितम् ॥
लोकत्रयेण भ्रुवौ वर्णयति-
पौ[२]ष्पं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषमासीत् ।
व्यधाविद्द्विधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिर्व्यधत्त ॥२४॥
पौष्पमिति ॥ मदनस्य दाहसमये पौष्पं पुष्परूपं धनुः तस्यैव चापं श्यामीभवन्तः श्यामायमानाः केसरा एव शेषा यस्यैवंविधं स्वरूपेण दग्धमपि श्यामीभवत्केसरशेष- मासीत्किम् । मदनदाहानन्तरं ईशो महादेवः श्यामीभूतं धनुराकारं तत्केसरमपि क्रुधा क्रोधेन द्विधा व्यधाच्चकार मध्ये बभञ्ज किम् । द्विधाभूतेन येन कृत्वा विधिर्ब्रह्मा भैमीभ्रुवौ व्यधत्त चकार । अन्यथा तत्सादृश्यं ध्रुवोर्न घटत इत्यर्थः । असंलग्ने धनुराकारे श्यामे च भैमीभ्रुवाविति भावः । अन्योऽपि वैरिणं हत्वा क्रोधेन तदायुधमपि भनक्ति[३] ॥
भ्रूभ्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः ।
निजां यदत्प्नोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥२५॥
भ्रूभ्यामिति ॥ प्रियाया भैम्या भ्रूभ्यां कृत्वा भवता उत्पद्यमानेन भ्रूत्वं गच्छता मनोभूचापेन घनो दृढः सारो मज्जा यस्य तद्भावोतिदृढत्वं च आपे प्रापे । यदैव