पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

दित्वाण्णत्वाभावः । अवतरणमवतर इति भावे 'ऋदोरम्' इत्यप् । कृत्यल्युटो बहुलम्' इति सूत्रादुपरि 'भावे' इत्यधिकारस्य स्थितत्वात् । 'अवे तृस्त्रोः' इति घञि अवतार इति स्यात् । तस्य संज्ञायां करणाधिकरणयोश्च विधानात्प्रकृते तदभवादबेव । यद्वा-अवतरतीत्यवतरः । त्रिनेत्रश्चासाववतरश्चेति पचाद्यचि ज्ञेयम् । अवतरत्वस्य बोधिकेति शेषषष्ठ्याः समासः, न तु कर्मषष्ठ्याः । तृजकाभ्यां कर्तरि' इति निषेधात् । नचैवं सति निषेधवैयर्थ्यम् । कारकषष्ट्याः समासे हि कृदुत्तरपदप्रकृतिस्वरप्रसङ्गः । शेषषष्ठ्यास्तु समासे समासान्तोदात्तत्वमिति स्वरविशेषस्य सत्त्वात् । एतेन 'जनिकर्तुः प्रकृतिः', 'तत्प्रयोजको हेतुश्च' इति निर्देशो व्याख्यातः । अनित्यः षष्टीसमासनिषेध इत्यन्ये । यद्वा-बोधयतीति बोधा इति पचाद्यचि पूर्वण षष्ठीसमासे समासात्स्वार्थिक कनि 'प्रत्ययस्थात्कात्पूर्वस्यात इत्-' इतीत्वम् । अवतरत्वं बोधयतीति 'कर्मण्यण्' इत्यणि ङीपि कनि 'केऽणः' इति ह्रस्वत्वमिति वा समर्थनीयम्१ ॥

पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे ।
भुवं यदेकाङ्घकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम् ॥७॥

पदैरिति ॥ अमुना नलेन चतुर्भिः पदैश्चरणैः सत्यास्तेयशमदमरूपैस्तपोदानयज्ञज्ञानरूपैर्वा सुकृते धर्मे स्थिरीकृते निश्चलीकृते सति कृते सत्ययुगे के जनास्तपो धर्मे न प्रपेदिरे न प्रापुः । अपि तु सर्वे धर्मपरा बभूवुः । कृते युगे धर्मस्य चतुष्पात्त्वे सिद्धेऽप्यधर्मस्याप्येकस्य पादस्य सत्त्चाशङ्कायामनेनाधर्मस्यातितरां कृशीकरणद्वारा स्थिरकरणाञ्च्विप्रत्ययोपपत्तिः । कुतोऽवगतमेतदित्याह-यद्यस्माद्धर्मविरुद्धोऽधर्मोऽपि तपस्वितां धर्मवत्तां दधौ दधार । अन्ये तपश्चक्रुरिति किमाश्चर्यम् । किं कुर्वन् । एकाङ्घ्रिकनिष्ठया भुवं स्पृशन् । एकोऽङ्घ्रिर्यस्यां सा एकाङ्घ्रिका, सा चासौ निष्ठा स्थितिश्च तया, एकचरणकनिष्ठिकया वा भुवं स्पृशन् । अत एव कृशो दुर्बलः क्षीणः । धर्माधर्मौ चतुष्पादौ । धर्मस्य ज्ञानादयश्चत्वारः पादाः । अधर्मस्य तद्विपरीताः। तत्र कृतयुगे धर्मश्चतुष्पात्, अधर्म एकपात् । अतश्चाधर्मन्यूनत्वमेवाधर्मस्य कृशत्वम् । अथ च दीनत्वम् । अन्योऽपि महांस्तपस्वी पूर्वावस्थो भवति । 'नलस्तु कृतयुगे नाभूत्' इति कश्चित् । तच्च सर्वपुराणेषु कृतयुग एव नलसंभवस्योक्तत्वात् 'अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । प्रतिकुर्युन किं नूनं नलरामयुधिष्ठिराः ॥' इति युगक्रमनिर्देशाद्विरुद्धमिति ज्ञातव्यम् । तन्मते शोभना कृतिः सुकृतिस्तस्याः सुकृतेर्धर्मस्य चतुर्भिश्चरणैर्नलेन त्रेतायामपि कृते कृतयुगे स्थिरीकृते सति धर्मस्य बाहुल्यात्रेतायुगमपि कृतयुगमेवेति २सविसर्ग पाठमङ्गीकृत्य व्याख्येयम् । यद्वा-अनेन त्रेतायां चतुर्भिः पादैर्धर्मे स्थिरीकृते सति तेन च कृते कृतयुगे जाते सति के न तपः प्रपेदिरे । यत्र चतुष्पाद्धर्म-


१ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी। 'तृतीयां दृशम्' इति रूपकम् । नलस्य विभूतिभेदेप्यभेदोक्तरेतिशयोक्तिः । अत्रोक्तयो रूपकातिशयोक्त्योः संकरः' इति जीवातुः । २ एतच्च ‘खर्परे शरि वा विसर्गलोपः' इति वार्तिकविस्मृतिमूलकम् । सविसर्गपाठे सप्रम्यन्तश्लेषोऽनुपपन्नः स्यात् ।