पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
नेषधीयचरिते

जितमित्याश्चर्यम् । तस्मादेतद्बाणद्वयमेव सार्थकं यथा, तथा बाणत्रयं नेत्यभिप्रायः। विनिर्जयात् विनिर्जयं पर्यालोच्येति ल्यव्लोपो वा[१]

  सेयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या।

  तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥२८॥

 सेयमिति ॥ मुष्टिग्रहणार्हो मध्यो यस्याः सेयं भैमी स्मरस्य कौसुमी चापयष्टिर्धनु- लता । अत एव मृदुः कोमला । चापयष्टिरपि मध्ये मुष्टिना ध्रियते। सा का-या भैमी नोस्माकं मोहाय मदनजन्यविकाराय श्रीमता सलक्ष्मीकेनापाङ्गेन नेत्रप्रान्तेन मुक्तां दृष्टिलक्षणानां नेत्रकमललक्षणानां शराणामोघस्य समूहस्य वृष्टिम् , ओधेन परम्परया वा वृष्टिं तनोति विस्तारयति । मदनोप्यस्मादृशां मोहाय पूर्वोक्तामेव शरौघवृष्टिं तनोति तथेयमपि कटाक्षविक्षेपमात्रेण जगत्रयमपि मोहयतीति भावः । 'ओघः परम्परायां च' इति वि[२]श्वः ॥

  आघूर्णितं पक्ष्मलमक्षिपद्मं- प्रान्तद्युतिश्वैत्यजितामृतांशु ।

  अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥२९॥

आधूर्णितमिति ॥ अस्या भैम्या अक्षिपद्मं नयनकमलं अस्या भैम्या इव । न त्वन्यनयनाभ्यां तुल्यमित्यर्थः । किंभूतमक्षिपद्मम्-आधूर्णितं धूर्णायमानं मन्दमुन्मीलदित्यर्थः । अथ च विकसदद्वस्थम् । तथा-पक्ष्मलं रोमसहितम् । अथ च दलसहितम् । तथा-प्रान्तद्युतेरपाङ्गकान्तेः श्चैत्येन श्वेतिमा कृत्वा जितोमृतांशुश्चन्द्रो येन । प्रान्तं तस्मादधिकमुज्वलम् । चन्द्रः सुधया यथाह्लादकारी, तथापाङ्गद्युत्या तदप्याल्हादकारीत्यर्थः । कमलमपि प्रकृष्टा या अन्तद्युतिर्गर्भकान्तिस्तस्याः चैत्येन जितचन्द्रम् । 'प्रांशुद्युति' इति पाठे महाकान्ति, चैत्येन जितचन्द्रम् , भिन्नं पदम् । तथा-चलंश्चञ्चलो य इन्द्रनीलगोलः, तद्वद्मला तस्य वामला स्निग्धतरा श्यामलता कृष्णता तां आरात्यादत्तेऽङ्गीकरोति इति श्यामलतारा एवंविधा तारा कनीनिका यस्यैवंविधम् । आङ्पूर्वो रातिरादाने वर्तते ॥ कमलमपि चलदिन्द्रनीलगोलवदमला या श्यामलता श्यामत्वं तां रात्यङ्गीकरोति श्यामलतारो भ्रमरस्तेन तारं तारस्वरयुक्तम् । भ्रमरस्य तारोत्युच्चः स्वरो यस्मिन्निति वा । पद्मेन साम्ये वक्तव्ये तत्कमलं स्वरूपेणैतदेवेति भेदाभावात्कमलेन साम्याभावः । यद्वा कमलस्य नेत्रयोश्च यद्यपि साम्यमस्ति, तथापि नेत्रकमलस्य कमलेन साम्याभावः । कमलनेत्रत्वे सति कमलत्वस्याभावादित्यर्थः । अन्यस्या नयनाभ्यां तु साम्यमसंभावितमेव । तथा च दक्षिणनेत्रपनं वामनेत्रपद्म तुल्यम्, वामनयनकमलं दक्षिणनयनकमलतुल्यम्, न त्वन्यदस्योपमानमस्तीति भावः । अत्र विषये 'रामरावणयोर्युद्धं रामरावणयोरिव' इतिवत्तदेवोपमेयमुपमानं च संगच्छते । पक्षमलम् , सिध्मादित्वान्मत्वर्थे ल[३] चू ।

  1. 'अत्र विषमातिशयोक्तिरूपकालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्रानुप्रासरूपकोपमानन्वयालंकारः' इति साहित्यविद्याधरी।