पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
सतमः सर्ग।

  कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युत्तिनिर्जितेन।

  यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ ३० ॥

 कर्णोत्पलेनेति ॥ कुरङ्गी मृगी भैमीनेत्रकान्त्या निर्जितेन एतदीयेन भैमीसंबन्धिना कर्णोत्पलेन कर्णावतंसोत्पलेनापि सनाथं युक्तं स्वमुखं यदि लभेत, ततस्तर्हि कृतार्थी कृतकृत्या सती स्वचक्षुषी किं किमर्थ कुरुते । अपितु अतिहीनत्वान्निष्प्रयोजनत्वाच्च नेत्रे त्यजेदेवेति भावः । भैमीनेत्रशोभाप्राप्तौ का कथेत्यपेरर्थः । तन्नेत्रदीप्त्या जितेनापि कर्णोत्पलेन तन्मुखस्य सनाथत्वं चेत्स्यात्तर्हि सा स्वनयने त्यजेदेवेत्यर्थः । मृगीनेत्रापेक्षया भैमीकोत्पलमधिकम्, ततोऽपि भैमीनेत्रे अधिके इति भावः । ततः कोत्पलयोगलाभाद्धेतोः कृतार्था सतीति वा[१]

  त्वचः समुत्तार्य दलानि रीत्या मोचावचः पञ्चषपाटनायाम् ।

  सारैर्गृहीतैर्विधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी ॥ ३१ ॥

 त्वच: इति ॥ मोचात्वचः कदलीगर्भत्वचः संबन्धिनीर्वाह्यास्त्वचो वल्कलानि रीत्या प्रकारेण क्रमेण समुत्तार्य पृथक्कृत्य, तथा कमलवृन्दसंबन्धीनि बाह्यानि दलानि पत्राणि क्रमेण पृथक्कृत्य पञ्चषपाटनायां पञ्च षड् वा परिमाणं येषां कदलीत्वकमलवृन्ददलानां तेषां पाटनायां सत्यां वाह्याः पञ्चषास्त्वचः वाह्यानि पञ्चपाणि दलानि चोत्पाट्य मोचात्वचः कदलीवल्कलात् , उत्पलौघाच्च गृहीतैः सारैः श्रेष्ठभागैः कृत्वा अस्यां भैम्यां विषये विधिर्ब्रह्मा ईक्षणे नेत्रे तयो रूपं रामणीयकं तस्य शिल्पी कारकोभूत् । कदलीगर्भगतं गौरत्वं गृहीत्वा नेत्रगतं गौरत्वं निर्मितम् । यद्वा कमलगर्भपत्रगतं गौरत्वं गृहीत्वा नेत्रसौन्दर्य निर्मितमित्यर्थः । उत्पलशब्देन नीलोत्पलं वा.। तथा च तत्सारण नेत्रयोर्नीलिमा कृत इत्यर्थः । पञ्चष इति 'संख्ययाव्ययासन्ना-' इति बहुवीही 'बहुव्रीहौ संख्येये-' इति डच्[२]

  चकोरनेत्रेण दृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः ।

  सारः सुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ ३२ ॥

 चकोरेति ॥ एतन्नयने भैभीनेत्रे विधातुं निर्मातुं विधातुब्रह्मणः प्रयत्नैः समुद्योगैः चकोरनेत्राणामेणदृशां हरिणीनेत्राणाम् , उत्पलानां च संबन्धी सुधोद्गारमयः पीयूष निर्झररूप एष प्रत्यक्ष(:) दृश्यः सारः श्रेष्ठो भागो निमेषलक्षणेन यन्त्रेण कृष्ट आकृष्टः किमित्यूहः । निमेषः पश्मसंकोचो दलसंकोचश्च । त्रयाणामपि निमेषयन्त्रेण निष्पीड्य गृहीतेन श्रेष्ठभागेनैतन्नेत्रे निर्मिते । सारस्य सुधोद्गाररूपत्वं च पीतचन्द्रचन्द्रिकचकोरनयनसाराकर्षणात्, एणस्य च चन्द्रोत्सङ्गस्थत्वात् , तद्दृशोरप्यमृतसंवन्धात्तत्साराकर्षणात् , उत्पलानां च सोमवंश्यत्वाद्रात्रौ चन्द्रामृतसंबन्धात्तत्सारापकर्ष-


  1. 'अत्रातिशयोक्तिः काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र यथासंख्यातिशयो- क्तिरलंकारः' इति साहित्यविद्याधरी।