पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
नैषधीयचरिते

म्यधरसाम्य नास्त्येव रक्तत्वे सत्यमृतवत्त्वाभावात् । यदि स्यात्तर्ह्यमृतभूमाबुत्पन्नस्यैव नान्यस्य । अथ च निर्मलत्वाञ्चन्द्रे प्रतिविम्बोन्यस्य युक्त इत्यर्थः । अत एव मुखेन्दौ इति निर्देशः । अथ च चन्द्रबिम्बस्य प्रतिबिम्बो भवतीति युक्तमेवेत्यर्थः । अथ वेत्यपरितोषेणैतद्दषयति-तस्य श्रीः शोभा द्रुमभाजि देशे द्रुमसहिते देशे । अस्य तु एतधरस्य सा श्रीः विद्रुमे प्रवाले संभाव्यमाना संभाव्यते इत्यर्थः । सुधाभूसमुत्पन्नस्यापि बिम्बफलस्य रसवत्त्वेन साम्यं स्यात् तथापि तस्य वृक्षाश्रयत्वाद्रक्तशोभाया अतिरूक्षत्वात्, भैम्यधरस्य स्निग्धत्वात् तर्ह्यधरस्यैव स्निग्धरक्तशोभा कुत्रास्तीति विचारे विद्रुमेऽस्ति । रक्तिम्ना कृत्वा विद्रुमस्याधरस्य च साम्यं विद्यते यद्यपि तथापि विद्रुमस्य सुधाभूमावनुत्पन्नत्वादधरतुल्यरसत्वाभावाद्विद्रुमेणापि साम्यं न विद्यत इत्यर्थः । बिम्बीफलस्यैवंविधरक्तिमाभावाद्विद्रुमस्यामृतवत्त्वाभावात्, एतदधरस्य चैतदुभययुक्तत्वादेतधरो न ताभ्यां तुल्य इति भावः । द्रुमसहिते देशे वर्तमानस्य परस्परबिरुद्धत्वात्साम्याभाव इत्यर्थः । अन्यरमणीरदनच्छदस्य बिम्बीफलस्य च यद्यपि साम्यमस्ति, तथाप्येतस्या नास्तीति अस्या इति पदेन सूचितम् । मुखेन्दाविति सुधासंभवसूचनं भैम्यधरस्यैव । यद्वा अथवा अन्यस्मादपि हेतोरिति यावत् । तस्य बिम्बीफलस्य शोभा वृक्षसहिते देशे बहुवृक्षे वने वर्तते । बिम्बीफललताया वृक्षाद्याश्रयत्वात् । अस्य तु पुनः संभाव्यमाना विचार्यमाणा सा विगतवृक्षे नगरे संभाव्यते । नगर एव भैम्याः सत्त्वात् । द्रुमभाजि साधारणकन्दकवृक्षसहिते देशेऽरण्ये तस्य श्रीः, अस्य तु विशिष्टाम्रादिवृक्षे नगरे सा संभाव्यत इति वा । आरण्यकस्य नागरिकस्य च बह्वन्तरमित्यर्थः । इति विस्तरेणालम् । प्रतिबिम्बशब्दोर्धर्चादिषु द्रष्टव्यः [१]

  जानेतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोधरत्वम् ।

  द्वयोर्विशेषावगमाक्षमाणां नाम्नि भ्रमोभूदनयोर्जनानाम् ॥ ३९॥

 जान इति ॥ रदनच्छदोपमानत्वेन प्रसिद्धं यद्विम्बं बिम्बीफलं तत् इदमेव भैम्योष्ठलक्षणमेव नान्यदिति जाने । कुतः-अतिरागादतिलौहित्यादत्यनुरागाच्च । लोकप्रयसिद्धस्य बिम्बस्य तादृग्लौहित्याभावात्सर्वत्रोपमानस्याधिक्याच्चाधर उपमानमभूत् । यद्विम्बफलं तद्भैमीरदनच्छद्रूपमेव नान्यदित्यर्थः। भैमीरदनच्छदस्योपमानत्वं युक्तमिति भावः ॥ लौकिकस्य बिम्बस्य च इतः सत्यरूपाद्भैमीरदनच्छदात्सकाशाद्धधरत्वं हीनत्वं व्यक्तं स्पष्टम् । तादृशलौहित्याभावान्यूनत्वादुपमेयत्वमित्यर्थः । अथ च इदं पुरो दृश्यमानमेव विम्बं इतः पुरोदृश्यमानादस्माल्लौहित्याद्धेतोः बिम्बस्य च प्रसिद्धबिम्बीफलस्याधरत्वमोष्ठत्वम् । नन्वेवं सति लोकप्रसिद्ध्यपलापप्रसङ्ग इत्यत आह-द्वयोबिम्बफलाधरयोः विशेषावगमे तारतम्यज्ञाने अक्षमाणामसमर्थानां पामराणां जनानां द्वयोरनयोबिम्बाधरयोः नाम्नि भ्रमोऽभूत् । तारतम्यास्फुरणात्पामरैर्बिम्बत्वेन परीक्षकाभिमतस्याधरसंज्ञा कृता, अधरत्वेन च परीक्षकाभिमतस्य बिम्बसंज्ञा कृता । अतः पामरप्रसिद्ध्यपलापः, न तु परीक्षकप्रसिद्ध्यपलाप इत्यर्थः। बिम्बापेक्षया भैम्योष्ठोऽधिक एवेति भावः [२]


  1. अत्रोत्प्रेक्षारूपककाव्यलिङ्गमलंकाराः' इति साहित्यविद्याधरी।
  2. 'अत्र रूपकातिशयोक्तिव्यतिरेकाक्षेपालंकारसंकरः' इति साहित्यविद्याधरी