पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
नैषधीयचरिते

 स्मितं वर्णयति-

  यदि प्रसादीकुरुते सुधांशोरेषा सहस्रांशमपि स्मितस्य ।

  तत्कौमुदीनां कुरुते तमेव निमि[१]च्छय देवः सफलं स जन्म॥४३॥

 यदीति ॥ एषा स्मितस्य सहस्रांशं सहस्रपरिपूरकं लेशमपि सुधांशोः यदि चेत्प्रसादीकुरुते चन्द्रस्य प्रसन्ना भूत्वा प्रसादत्वेन स्मितलेशत्वमपि ददाति तर्हि स चन्द्रो देवः तमेव सितसहस्रांशमेव निमिच्छ्य अर्थात्कौमुदीभिरेव पूजयित्वा नीराजनं कृत्वा कौमुदीनां जन्म सफलं कृतकृत्यं कुरुते । अत्युत्तमस्य तस्य नीराजनस्थाने तासां भवनयोग्यत्वात् । अन्यदप्युत्तमं वस्तूत्तमेन वस्त्रादिना नीराज्यते । कौमुद्यस्तस्मितस- हस्रांशस्यापि सदृश्यो नेति भावः । सहस्रं चासावंशश्चेति व्युत्पत्तिः । सहस्रपूरणोंऽश इति लक्षणया व्याख्येयम् । अन्यथा 'नित्यं शतादि-' इत्यादिना डटस्तमडागमे सहस्रतम इति स्यात् । निपूर्वो मिच्छतिर्नीराज[२]नार्थः ॥

 श्लोकत्रयेण दन्तपङ्क्तिद्वयं वर्णयति-

  चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् ।

  पुरःसरस्रस्तपृषद्वितीयं रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥४४॥


 चन्द्रति ॥ तस्य चन्द्रस्य किरणात् । जात्यभिप्रायेणैकवचनम् । किरणेभ्यः सकाशाद्धनानां मुखचद्रस्य चन्द्रादुत्कृष्टत्वाद्धनानामतिनिबिडानां चन्द्राधिकं चन्द्रोत्कृष्टम् एतन्मुखं भैमीमुखचन्द्रस्तस्य चन्द्रिकाणां दरायतमीषदीर्घम्, अथ च चन्द्राधिकैतन्मुखचन्द्रचन्द्रिकारूपाणामेव घनानां मेघानां तेभ्यो मेघेभ्यः क्षरणाद्धेतोः ईषदायतम् । पुरःसराण्यग्रेसराणि सस्तानि निःसृतानि पृषन्ति बिन्दवः, तान्येव द्वितीयानि यस्य तत् बिन्दुवृन्दम् रदावलिद्वन्द्वति दन्तपङ्क्तिद्वयमिवाचरति । अननिःसृतबिन्दूनां सूक्ष्मत्वाधोदन्तत्वम् , पश्चाव्यवधानेन निःसरतां विन्दूनामीषदायतत्वादूर्ध्वदन्तत्वमित्यर्थः । पर्जन्यवशात्पटलान्तात्प्रथममेका बिन्दुपतिः पतति । तदनु द्वितीया, तयैव संलग्नेषदायता पतति। तद्वदिदं दन्तपङ्क्तिद्वयमिति । दन्तानामीषदायतत्वं घनत्वं सूक्ष्मत्वं सामुद्रिको गुणः। रदावलिद्वन्द्वतीत्यत्र सर्वप्रातिपदिकेभ्यः क्विबाचारे' इति क्विप्[३]

  सेयं ममैतद्विरहार्तिमूर्छातमीविभातस्य विभाति संध्या ।

  महेन्द्रकाष्ठागतरागकर्त्रे द्विजैरमीभिः समुपास्यमाना ॥ ४५ ॥

 सेयमिति ॥ सेयं भैमी मम एतया सह विरहो वियोगः, तज्जन्या यातिः पीडा तज्जन्या या मूर्छा सैव तमी रजनी तस्या विभातस्य प्रातःकालसमयस्य संबन्धिनी संध्या विभाति प्रकाशते । कीदृशी-महेन्द्रस्य काष्ठामुत्कर्ष गतः प्राप्तः काष्टां मर्यादामागतो प्राप्तो वा रागोऽनुरागस्तस्य की जनिका । तथा-अमीभिः प्रत्यक्षदृश्यैद्विजै-


  1. निमित्य इति पठित्वा 'प्रक्षिप्य' इति व्याख्यातं जीवातौ
  2. 'अनातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्तयुपमारूपकालंकारः' इति साहित्यविद्याधरी।