पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
सप्तमः सर्गः।

दन्तैः समुपास्यमाना सेव्यमाना । विभातस्य संध्येयमित्यनेन भैमीदर्शनान्मूर्छापगमः सूचितः। प्रातःसंध्यापि प्राचीप्राप्तलौहित्यजनिका ब्राह्मणः सेव्यते । 'रजनी यामिनी तमी' इत्यम[१]रः॥

  राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् ।

  उवेगरागादिमृजावदाताश्चत्वार एते तदवैमि मुक्ताः ॥ ४६ ॥

 राजाविति ॥ इह दृश्यमानायां द्विजानां दन्तानां राजौ पङ्क्तौ एते दृश्यमानाः चत्वारो राजदन्ता दन्तश्रेष्ठा यद्यस्मात् श्रोत्रियाणां विभ्रमं विलासमुज्ज्वलत्वलक्षणं धारयन्ति तत् तस्मात् मुक्ताः। एतान्राजदन्तान्मौक्तिकानि अवैमि । किंभूताः-उद्वेगरागः क्रमुकजन्यो लोहितिमा स आदिर्यस्य खादिरादेः मृजया शोधनेन कृत्वा अवदाता उज्ज्वलाः । क्रमुकत्वचा भस्मीभूतेन वा क्रमुकेण कृतमार्जना दन्ता अत्युज्ज्वला भवन्तीति चतुर्णामेव मार्जनं क्रियते तेषामेव दर्शनविषयत्वात् । ततश्चात्युज्ज्वलत्वान्मुतासाम्यं युज्यते । अथ च राजन् अन्तः स्वरूपं येषां ते राजदन्ताः । एवंभूता ब्राह्मणानां पङ्क्तौ श्रोत्रियविभ्रमं पङ्क्तिपावनत्वं विभ्रति । उद्वेगस्योद्वेजनस्य चित्तवैक्लव्यस्य रागस्याभिलाषस्य आदिशब्देन द्वेषादेश्च यन्मार्जनं त्यागः, तेन निष्कल्मषाश्च भवन्ति । 'उत् उत्कृष्टो वेगो येषां रागादीनाम्' इति वा । एवंविधा ब्राह्मणा मुक्ता भवन्तीति युक्तमेवेत्यर्थः। 'घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगम्' इत्यमरः । दन्तानां राजानो राजदन्ताः। राजदन्तादित्वात्परनिपातः[२]

 श्लोकचतुष्टयेन वाणी वर्णयति-

  शिरीषकोषादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः ।

  प्राप्तप्रकर्षः सुकुमारसर्गे समापद्वाचि मृदुत्वमुद्राम् ॥ ४७ ॥

 शिरीषेति ॥ वेधाः शिरीषस्य कोषात्कुसुमादपि कोमलाया अस्या भैम्या अशेष सकलमङ्गं सुकुमारतरं विधाय निर्माय सकुमारसर्गे मृदुतरवस्तुसृष्टौ प्राप्तप्रकर्षः सन् वाचि अस्या एव वाण्यां मृदुत्वमुद्रां सौकुमार्यमुद्रां समापयत् । ब्रह्मा सुकुमारतराण्येतदङ्गानि कृत्वा सौकुमार्यमर्यादां भैमीवाण्यामेव समाप्ति नीतवान् । अतिमधुरस्वरेयमिति भावः । अन्योऽपि क्वापि शिल्पे स्वोत्कर्ष समाप्ति नय[३]ति ॥

  प्रसूनबाणाद्वयवादिनी सा काचिद्द्विजेनोपनिषपिकेन ।

  अस्याः किमास्यद्विजराजतो वा नाधीयते भैक्षभुजा तरुभ्यः॥४८॥

 प्रसूनेति ॥ तरुभ्य आम्रादिवृक्षेभ्यो भैक्षभुजा फलपुष्पादिरूपभिक्षासमूहभोजिनापिकेन कोकिलेन द्विजेन पक्षिणा प्रसूनबाणः कामः, तस्य अद्वैतवादिनी सा भैमीवाग्रूपा काचिदपूर्वा उपनिषत् रहस्यग्रन्थः अस्या भैम्या आस्यद्विजराजतो मुखचन्द्रात्-


  1. 'अत्र रूपकश्लेषालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्राससमासोक्त्यलंकारसंकरः' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्तिपरिसंख्यालंकारसंंकरः' इति साहित्यविद्याधरी