पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०३
सप्तमः सर्गः।

इहेति ॥ अतिवको वैषम्यादतिकुटिलो व्यङ्ग्यगूढार्थयुक्तो दुर्बाधोऽनृजुश्च शास्त्रौघस्य शास्त्रसमूहस्य निष्यन्दः सारभाग एव सुधाप्रवाहः येन यथा इह अस्याः कण्ठकूपेऽविशत्स पन्था अस्या भैम्याः श्रवःपत्रयुगे कर्णताटङ्कद्वये प्रणालिकाया रेखेवाभिकर्णकूपं कर्णरन्ध्र लक्षीकृत्य कर्णकूपसंमुखं वा धावति । यादृशी प्रणालिका तादृश एव प्रवाहो भवति । अत्र च ताटङ्कप्रणालिके कुण्डलाकारत्वाद्वक्रे, अतस्तत्र गच्छन्प्रवाहोपि वक्रो युक्तः । यद्वा वक्रगामिनो हि प्रवाहस्य प्रणालीरूपो मार्गो वक्र एव भवति, कूपं चानुधावति । अतो वक्रकर्णरेखारूपया प्रणाल्या कृत्वा वक्रः शास्त्रसुधाप्रवाहः कर्णयुगे भैम्यां वा प्रविष्ट इत्यर्थः । वक्रोक्तिः सुधारूपा भवति, सकलकलाप्रवीणेयमिति भावः । निष्यन्दत इति निष्यन्दः । पक्षे पचाद्यच् । 'अनुवि. पर्यभिनिभ्यः स्यन्दतेः-' इति षत्वम् । अभिकर्णकूपमिति 'लक्षणेनाभिप्रती आभिमुख्ये' इति समासः[१]

  अस्या यदष्टादश संविभज्य विद्याः श्रुती दधतुरर्धमर्धम् ।

  कर्णान्तरूत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः॥६३॥

अस्या इति ॥ अस्याः श्रुती कर्णौ अष्टादश विद्याः संविभज्य द्विधाकृत्य यदर्धमर्धं प्रत्येकं धारयामासतुः तस्यार्धस्य कर्णान्तः कर्णमध्ये उत्कीर्णा उद्धृता गभीरा निम्ना रेखा यस्य एवंभूतो नवसंख्याद्योतकोऽङ्को नवा अपूर्वाश्चर्यरूपा संख्या किं न, अपि तु भवत्येव । नवसंख्याका विद्या एका श्रुतिर्धारयति, अपरापि नवसंख्याका इति द्योतनार्थं ब्रह्मणैव कर्णमध्ये रेखारूपोऽष्टादशार्धगणानानुरूपो नवाङ्को निर्मित इत्यर्थः। तस्यैवार्धसंख्या नवा किं नवाङ्क इत्यर्थ इति वा । नवेति निषेधार्थः । अस्याः कर्णरेखा नवाङ्कतुल्या सलक्षणेति भावः[२]

  मन्येमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण ।

  एकाकिपाशं वरुणं विजिग्येनङ्गीकृतायासतती रतीशः ॥ ६४॥


 मन्य इति ॥ रतीशः कामः अमुना एतदीयेन कर्णलतामयेन छिदुरेतरेण दृढतरेण पाशद्वयेन पाशरूपशस्त्रद्वयेन कृत्वा एक एव एकाकी पाशो यस्यैवंविधं वरुणं सुखेन विजिग्ये जितवान्मन्ये । किंभूतः :-न अङ्गीकृता आयासततिः श्रमसाहित्यं येन । पाशद्वयनैकस्य पाशस्य जयः सुकरः इत्यायासराहित्यम् । कर्णयुगं दृष्ट्वा वरुणादयः सर्वेपि कामपरवशा भवन्तीति भावः । 'पाशो बन्धनशस्त्रयोः' इत्यमरः । विजिग्ये 'विपराभ्यां जेः' इति तङ्[३]

  आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोपि ।

  तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः॥६॥


  1. 'अत्रापहृत्युपमालंकारौं' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासोत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासापद्धुत्युत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी।