पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
नैषधीयचरिते

नैषधीयचरिते रक्तत्वात् हैङ्गुलं हिङ्गुलेन रक्तं पद्मं तजनितो यस्तूण इषुधिस्तद्रूपे । किंभूता पञ्चशरी। हैमाः सुवर्णमया एके श्रेष्ठाः पुङ्खा मुखानि यस्याः सा । तथा-विशुद्धानि ऋजूनि पर्वाणि ग्रन्थयो यस्याः सा । मदनस्य पुष्पायुधत्वादिषुधिरपि पुष्पमयः। तच्च पुष्पं


गन्यते । करस्येषधित्वं, पञ्चाङ्गुलीनां पञ्चबाणीत्वं, रक्तनखानां च सुवणेपुरत्वम् , उभयारापाशुभ प..

वर्णं रक्तं भवति । भैमीकराङ्गुलीदर्शनात्कामप्रादुर्भावो भवतीति प्रतिपाणिवर्णने पञ्चशरत्वम् । हैङ्गुलम् 'तेन रक्तम्-' इत्यण् । पञ्चशरी समाहारे 'द्विगोः' इति ङीप्[१][२]

  अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वमापत्खलु पल्लवो यः ।

  भूयोपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥७१॥

 अस्या इति ॥ यः पल्लवः अस्याः करस्पर्धनस्य पाणिस्पर्धाया गर्धनमभिलाषस्तेन ऋद्धिराधिक्यं यस्य, यद्वा स्पर्धने गर्धनद्धिरभिलाषसमृद्धिर्यस्य, भैमीपाणिभ्यां तुल्योऽहमिति चित्ते धत्ते, एवंविधः सन् बालत्वं नवीनत्वमापत्खलु । यस्मान्नवीनस्यैव तस्य रक्तत्वात्पाणिसाम्यार्हत्वम् । अथ च बालत्वमज्ञत्वं प्रापत् । स्वापेक्षयाधिकेन भैमीपाणिना सह स्पर्धमानत्वात् । अथ च स्वयं पदो लवः पल्लवश्चरणावयवः पाणिना सह यदा स्पर्धते तदा स मूर्ख एव, पाणेरुत्कृष्टत्वात्तस्य चातिनिकृष्टत्वादित्यर्थः। स पल्लवः भूयः पुनरण्यधरसाम्यगर्वं ओष्टतुल्योहमति गर्व कुर्वन् प्रकृष्टो बालः अतिनूतनः कथं वा नास्तु, अपितु तादृश एव भवतु । अथ च मूर्खः कथं नास्तु । यः पाणिभ्यां साम्य न लेभे स पाण्यपेक्षयातिरक्तस्याधरस्य साम्यमिच्छन् प्रबालः प्रकृष्टो मूर्खः कथं न, अपितु मूर्खतर इत्यर्थः । नामेत्युपहासे । नवपल्लवादप्यतिरक्तौ भैमीकराविति भावः । अधर- वर्णनं प्रासङ्गिकम् । 'मूर्खेऽर्भकेऽपि बालः स्यात्' इ[३] त्यमरः ॥

  अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।

  इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तया स्याम्॥७२॥

 अस्यैवेति ॥ धाता अस्यां हरिणेक्षणायां भैम्या हस्ते लेखीकृतया लिखितया अथ च अभ्यस्तया तया सरोजसृष्टया कृत्वा इत्याह किं पूर्वोक्तं ब्रूते किम् । इति किम्-हे भैमि, अस्य भवत्करस्य त्वत्पाणेरेव सर्गाय निर्माणाय सरोजसृष्टिर्मम हस्तलेखोऽभ्यासोऽभूदिति । हस्तयोः कमलादप्यतिरमणीयत्वं, लक्षणभूतरेखाजन्यकमलवत्त्वं च सूचितम् । अन्योऽपि पूर्व हस्तलेखं करोति, पश्चात्सुन्दरतरं वस्तु निर्माति[४]

 षड्भिः सालंकारौ कुचौ वर्णयति-

  किं नर्मदाया मम सेयमस्या दृश्याभितो बाहुलतामृणाली ।

  कुचौ किमुतस्थतुरन्तरीपे सरोष्मशुष्यतरवाल्यवारः ॥ ७३ ॥



  1. 'अत्रापढुतिरलंकारः' इति साहित्यविद्याधरी
  2. 'स्पर्शनगर्धिऋद्धि' इति पाठो जीवातुसंमतः ।
  3. अत्रोत्प्रेक्षा समासोक्तिश्चालंकारः इति साहित्यविद्याधरी।
  4. 'अत्रोत्प्रेक्षातिशयोक्त्यलंकारौं' इति साहित्यविद्याधरी।