पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
नैषधीयचरिते

नलस्य । अन्यत्पूर्ववत् । यद्वा-धनुर्निस्वनं तनोति विस्तारयति, तयते प्राप्नोति वा धनुर्निस्वनतत् । स्फुरन्प्रकाशमानश्चासौ धनुर्निस्वनतच्च । प्रकृतत्वादयमेवेति । तस्य । अन्यत्पूर्ववत् । यद्वा-स्फुरन्तौ धनुर्निस्वनौ धनुःसिंहनादौ यस्य स चासौ (सः प्रसिद्धश्च) स एव घनो मेघस्तस्याशुगा शीघ्रगामिनी प्रौढा च । अन्यत्पूर्ववत् । शिखिपक्षे तु (यद्वा)-स्फुरन्ती इन्द्रधनुर्गर्जिते येषु ते च धना मेघास्तेषामाशुगा शीघ्रगामिनी पौढा, आंशुगेन वायुना वा प्रौढा या वृष्टिस्तया व्ययितस्य विनाशं प्रापितस्य । निस्वनं तन्वन्तीति निस्वनततः, स्फुरद्धनुर्युक्ता निस्वनततश्च ये घना मेघा इति वा । तेजःप्रधानस्याग्नेरिङ्गालः श्याम एव भवति । सर्वे राजानस्तेन जिता इत्यर्थः। 'आशुगौ वायुविशिखौ' इत्यमरः । निस्वनं तनोतीति निस्वनतदित्यत्र पक्षे को 'गमः क्वौ' इत्यत्र 'ग- मादीनामिति वक्तव्यम्' इति वचनादनुनासिकलोपे तुक् । संशापूर्वकत्वाच्च 'नहिवृति-' इति दीर्घाभावः । तयतेर्वा क्विपि 'लोपो व्योर्वलि' इति यलोपे तुक् । शतात्परे इति विगृह्य 'पञ्चमी' इति योगविभागाद्वाहुलकाद्वा समासे 'राजदन्ता-' इति परनिपाते पारस्करादित्वात्सुटि श्चुत्वे च 'परश्शताः' इति सिद्धम्१ ॥

अनल्पदग्धारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयञ्ज्वलभ्दुवः ।
प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः ॥ १०॥

 अनल्पेति ॥ स राजघो राज्ञो हन्ति न क्षुद्रान् , राशां हन्ता नलो नीराजनया आरार्तिकेन रराज शुशुभे । किंभूतो नलः-जयाय विजयाय भुवो वलयं मण्डलं प्रदक्षिणीकृत्य स्थितः । किंभूतया नीराजनया-सृष्टया कृतया । पुरलोकैरिति शेषः । किंभूतं वलयम्-निजप्रतापैः स्वकीयैस्तेजोभिर्ज्वलत्प्रकाशमानम् । किंभूतैनिजप्रतापैः-अनल्पानि बहूनि दग्धान्यरिपुराणि वैरिनगराणि यैस्तेऽनल्पदग्धारिपुराः, ते च तेऽनला वह्नयस्तैरुज्ज्वला दीप्यमानास्तैः। भूरितरैरित्यर्थः । तेजसस्तेजोन्तरसंयोगे भूयस्त्वं भवति । अनलवदुज्ज्वलैरिति वा । यद्वा-किंभूतया नीराजनया-- उक्तविशेषणैर्निजप्रतापैरेव सृष्टया नलेनैव कृतया । किंभूतं वलयम्-ज्वलन्ननलेनैव देदीप्यमानम्.। शोभमानमित्यर्थः । अत एव राज्ञामभावो नीराजं नीराजकरणं नीराजना इत्यत्र 'अव्ययं विभक्ति-' इत्यभावेऽव्ययीभावः । 'अनश्च' इति टजन्तात् 'तत्करोति-' इति ण्यन्ताद्युच् । प्रचुरज्वालितजगराग्निवद्वीप्तैः स्वीयक्षात्रतेजोभिर्दीप्तं भूमण्डलं जयाय जेतुं परिभ्रम्य स्वैरेव प्रतापैः सृष्टया नीराजनया राजाभावकरणेन स रेजे इति भावः। जयाय भूमण्डलं परिक्रम्य यद्राजाभावकरणं तेन रेजे इति वा । यद्वा-ज्वलत्प्रकाशमानं जयाय जेतुं प्रदक्षिणीकृत्य स्वीयक्षात्रतेजोभिः कृतया नीराजनया आरार्तिकविधानेन स रेजे । प्रतापैर्नीराजनयेति व्यस्तरूपकं वा । अत्र ज्वलभ्दूमण्डलं जेतुं प्रदक्षिणीकृत्य सृष्टया, अर्थान्नलेनैवेति व्याख्येयम् । यद्वा-स्वीयतेजोभिः पुरलोकैर्वा जयस्याय आगमने कृतया, जये सत्ययेन शुभावहविधिना हेतुना कृतयति वा। (२गमनागमनयोर्नीराजनं क्रियत इति लोकाचारः । नलस्य जयं प्राप्तुं कृतया इति वा । जयाये जया-


१ 'अत्रोपमा रूपकं चालंकाराविति साहित्यविद्याधरी । रूपकोत्प्रेक्षयोः संकरः' इति जीवातुः। २ कुत्रचिन्न दृश्यतेऽयं पाठः।