पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
सप्तमः सर्गः

 करेति ॥ कराग्रे जाग्रद्विद्यमानः शतकोटिर्वज्रो यस्य स इन्द्रः ययोः कुचयोरर्थी याचकः कुचमर्दनाभिलाषी । उन्मदिष्णु लक्षणया पक्वं सर्वं श्रीफलं बिल्वफलं कर्तृ चेद्यदि तो इमौ कुचौ तुलयेत्समीकुर्यात् साम्याभिलाषि यदि भवेत् तदा तर्हि तद्विल्वफलमधुना वटीमपि स्तनलावण्यलेशमपि लब्धुं न जातं नोत्पन्नम् । रम्भाद्यप्सरसो विहायेन्द्रोऽप्येतयोरभिलाषी ताभ्यामतिसुन्दराभ्यां कुचाभ्यां पक्कमपि बिल्वफलं तुल्यं कथं भवेदित्यर्थः । यथोत्तमस्पर्धया नीचस्तेनावज्ञातत्वात्कपर्दकमूल्यमपि न लभेत तथातितुच्छं जातमित्यर्थः । बहुसंख्याकमपि द्वाभ्यां समं नाभूदिति सर्वपदेन सूचितम् । अथ च कराग्रे जाग्रत्यः शतं कोटयो द्रव्यसंख्या यस्य सोऽपि ययोरर्थी ग्रहणामिलापी ताविमौ कुचौ सर्व लक्ष्मीफलं तुलयेञ्चेत्, तदा उन्मदिष्णुत्वावटीं वराटिकामपि लब्धुं न जातम् । न योग्यमित्यर्थः । 'वटः कपर्दे न्यग्रोधे' इति विश्वः । 'स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि' इत्यमरसिंहवचनादल्पो वटो वटी । 'उन्मदिष्ण्वित्यत्र 'अलंकृञ् -' इतीष्णुच्[१]

  स्तनाव[२] टे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् ।

  हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः ॥८०॥

 स्तनेति ।। चन्दनेन पङ्किले आर्द्रचन्दनयुक्तेऽस्याः स्तनावटे गम्भीरे स्तनमध्ये जातस्य निष्पन्नस्य यावद्युवमानसानां सर्वतरुणान्तःकरणानां स्खलनस्य पतनस्य हारावल्यां रत्नानि तेषां मयूखधाराः किरणपरम्परा आकारः स्वरूपं यासां ता रेखाः स्फुरन्ति प्रतिभासन्ते । किरणपरम्परेयं न भवति, किंतु पतनरेखा एवेति । एवंभूतं स्तनमध्यं दृष्ट्वा सर्वेपि मुह्यन्तीति, तत्र स्खलनस्योक्तत्वात्तत्रालब्धावकाशा इति भावः । पङ्किले गते लोकस्य पतनं तदेखाश्चोत्पद्यन्ते । 'अवतः स्यात्खिले गर्ते कूपे कुहकजीविनि' इति विश्वः। पङ्किलः पिच्छादिः । यावन्तो युवानस्तावतामिति यावधुवं, साकल्ये व्ययीभावः[३]

 वलीसहितमुदरं वर्णयति-

  क्षीणेन मध्येऽपि सतोदरेण यत्माप्यते नाक्रमणं वलिभ्यः।

  सर्वाङ्गशुद्धौ तदनङ्गराज्यविजृम्भितं भीमभुवीह चित्रम् ॥ ८१ ॥

 क्षीणेनेति ॥ मध्येऽवलग्नेऽपि सता विद्यमानेन क्षीणेन कृशतरेणोदरेण यत् वलिभ्यस्त्रिवलिभ्यः सकाशादाक्रमणमभिभवो न प्राप्यते तत् सर्वाङ्गशुद्धौ सर्वाङ्गाणां शुद्धिः यस्या एवंभूतायामिहास्यां भीमभुवि भैम्यां चित्रमाश्चर्यरूपं अनङ्गराज्यस्य काभराज्यस्य विजृम्भितं विलसितम् । अद्भुततारुण्यवशात्सूक्ष्माणां वलीनामपतितत्वात्ताभिरतिकृशमुदरं नाक्रान्तमित्यर्थः । अन्येनापि क्षीणेन दुर्बलेनोभयोः सीमायां विद्यमानेनापि स्वाम्यमात्यादीनां सप्ताङ्गानां शुद्धौ सत्यामपि बलिष्टेभ्यो भयानकायां भूमौ पराभवो न प्राप्यते, तत् सप्ताङ्गरहितस्य दुर्बलस्य विलसितमाश्चर्यरूपम् । वलिनां स-


  1. 'अत्र श्लेषसमासोक्त्यलंकारः' इति साहित्यविद्याधरी !
  2. 'स्तनातटे इति जीवातुसंमतः पाठः ।
  3. 'अत्र समासोक्त्यपद्धुत्यलंकारः' इति साहित्यविद्याधरी। 'उत्प्रेक्षा' इति जीवातुः