पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
नैषधीयचरिते

र्वाङ्गशुद्धेर्विद्यमानत्वात् , स्वस्य च सर्वाङ्गराहित्यात्सीमनि वर्तमानत्वादिपराभवकारणे सत्यपि यत्पराभवो न प्राप्तस्तदाश्चर्यमित्यर्थः । तथा–भीमस्य भुवि राज्येऽनङ्गस्य राज्यं कथम् । अन्यभूमावन्यराज्यभावासंभवात् । अथ च भीमस्य महादेवस्य भुवि कामस्य राज्यमित्यप्याश्चर्यम् । परैर्ग्रहीतुमशक्यत्वादतिविषमायां भूमौ पराभवो न प्राप्यते अत्र चित्रं, अपि तु नेति काकु[१]र्वा ॥

 मध्यं वर्णयति-

  मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् ।

  केन स्तनौ संप्रति यौवनेऽस्याः सृजेदनन्यप्रतिभाङ्गयष्टेः ॥८२॥

 मध्यमिति ॥ वेधाः इदमीयमेतदीयं मध्यं तनूकृत्यातिकृशं कृत्वा मध्यसंबन्धिनं कमनीयमंशं भागं यदि न दध्यात्वापि न स्थापयेत् तर्हि संप्रति यौवने अनन्यप्रतिमाऽन. न्यतुल्याङ्गयष्टिरङ्गकान्तिर्यस्या एवंभूताया अस्याः स्तनौ केनांशेन प्रकारेण वा सृजेत् । एतदीयस्यातिसुन्दरस्य मध्यांशस्य संग्रहं कृत्वा तेनैवांशेन यौवने कुचौ कृतावित्यर्थः । मध्योऽतिकृशः, स्तनौ चातिसुन्दराविति भावः[२]

रोमावलीं वर्णयति-

  गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् ।

  इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥८३ ॥

 गौरीति ॥ विधाता अस्या मध्ये रोमावलीलक्षणं मेचकसूत्रं नीलसूत्रम् इतीव विदधे कृतवान्किम् । इति किम्-सुभगा सौभाग्यवतीयमपि पत्या प्रियेण कृत्वा कदाचिद्धतनूसमस्यां शरीरार्धपूरणं कर्ता करिष्यति । केव-गौरीव । पार्वती ईश्वरेणार्धतनूसमस्यां यथा कृतवती, तथेयमपि । इयं रोमावली न, किंवर्धशरीरघटनार्थ नीलसूत्रं विहितम् । 'कर्ता' इति लुट्[३]

पुनरपि सनाभिं रोमावली वर्णयति-

  रोमावलीरज्जुमरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् ।

  मदृष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषासिचयेन गुप्तिः ॥ ८४ ॥

 रोमावलीति ॥ मद्दृष्टितृष्णा मम दर्शनवाञ्छा रोमावलीलक्षणां रज्जुम्, उरोजलक्षणौ कुम्भौ, गम्भीरं नाभिलक्षणं कूपं चासाद्य तर्हि विरमेच्छाम्येत्, यदि एषां रोमावल्यादीनां सिचयेन वस्त्रेण एषा गुप्तिर्वेष्टनं न स्यात् । बत खेदे एवं तु न जातम्' इति खेदे । अवेष्टितानां सुखेन द्रष्टुं शक्यत्वाद्दर्शनवाञ्छा शाम्येत्, वस्त्रावृतत्वात्तु नेत्यर्थः । अथच अनावृतदर्शनाद्विरागः,आवृतदर्शनात्वनुरागवशात्पुनःपुनर्दिदृक्षैव वर्धत इत्यर्थः। रोमावल्यादेर्वस्त्रेण गोपनादौचित्यं सूचितम् । अथ च दोरकं, कुम्भौ, गम्भीरं कूपं च



  1. 'अत्र समासोक्तिविरोधालंकारौं' इति साहित्यविद्याधरी।
  2. 'अत्रानुमानमलंकारः' इति साहित्यविद्याधरी
  3. 'अत्रोत्प्रेक्षारूपकच्छेकानुप्रासालंकारः' इति साहित्यविद्याधरी