पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
सप्तमः सर्गः।

प्राप्य तृष्णा पिपासा तदा शाम्येत्, यद्यपामसिचयेन लक्षणया खड्गधारिपुरुषसमृ हेन रक्षणं न स्यात् । राजकभोग्यः कृपः खड्गपाणिभी रक्ष्यते, अतो जलहरणसामग्रीसद्भावेपि पिपासा न शाम्यतीति । [१]अतिगभीरनाभिरियमिति भावः । तृष्णे स्पृहापिपासे द्वे' इत्यमरः । विरमेत् 'व्यापरिभ्यो रमः' इति परस्मैपदम् ॥

  उन्मूलितालानविलाभनाभिश्छिन्नस्खलच्छृङ्खलरो[२]मराजिः ।

  मतस्य सेयं मदनद्विपस्य प्रस्वापवमोच्चकुचास्तु वास्तु ॥ ८५ ॥

 उन्मूलितेति ॥ सेयं भैमी मत्तस्य उद्भटस्य, अथच गलन्मदजलस्य, मदनरूपस्य द्विपस्य वास्तु वसतिगृहमस्तु । किंभूता-उन्मूलितमुत्पादितं यदालानं गजबन्धनस्तम्भः तत्संबन्धि यद्विलं गर्तस्तदाभा तत्तुल्यातिनिम्ना नाभिर्यस्याः सा । तथा-छिन्नं त्रुटितं स्खलत्पतितं शृङ्खलं तत्तुल्या रोमराजियस्याः। तथा प्रस्वापाय गजस्य शयनार्थं वप्रवनिर्मितवरण्डवदुचकुचा । इमामेवावलम्ब्य कामोऽतिमत्तो जात इति भावः। रोमावल्याश्छिन्नत्वं रोमावलीमध्यगतत्वात् । मत्तस्य गजस्य वसतिगृहमप्येतादृशं भवति । 'शृङ्खलं त्रिषु' इ[३]त्यमरः॥

  रोमावलिभूकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्ध्नि ।

  व्यस्तैरपि स्थास्नुभिरेतदीयै त्रः स चित्रं रतिजानिवीरः ॥८६॥

 रोमेति ॥ स रतिजानिवीरः रतिर्जाया यस्य स रतिजानिः स्मरः स चासौ वीरः शूरश्च एतदीयैः क्रमेण रोमावलिश्च भ्रुवौ च कुसुमानि च तद्रूपैः स्वमौर्वीचापेषुभिः कृत्वा जैत्रः जेता । लोकत्रयमपि जयतीत्यर्थः । एतचित्रम् । किंभूतैः रोमावलिभृकुसुमैः मध्यललाटमूर्ध्नि व्यस्तैः परस्परासंबद्धः स्थास्नुभिरपि स्थितैरपि। रोमावलीरूपा ज्या मध्ये, भूरूपं चापं ललाटे, मूनि कुसुमरूपा वाणाश्च विद्यन्ते । एवं पृथस्थितेरपि लोकत्रयजयादाश्चर्यम् । अन्यो हि धानुष्को मौर्वीधनुर्बाणैः संमिलितैरेव जयति न तु पृथक्स्थितैः, नैकैकेन, अत्र तु विपरीतदर्शनादाश्चर्यम् । प्रत्येकं अमीरोमावलीभ्रूकुसुमदर्शनात्कामप्रादुर्भावो भवतीति भावः । मूर्धांति प्राण्यङ्गत्वादेकवद्भावः। स्थास्नुभिः 'ग्लाजिस्थश्च गस्नुः । रतिजानिः, 'जायाया निङ् ॥


  पु[४]ष्पाणि बाणाः कुचमण्डनानि भ्रुवौ धनुर्भालमलंकरिष्णु ।

  रोमावली मध्यविभूषणं ज्या तथापि जेता रतिजानिरेतैः ॥८७॥

 इति श्लोकान्तरमपि व्याख्यातप्रायम् ॥


  1. 'अत्र छेकानुप्रासरूपकश्लेषालंकारः' इति साहित्यविद्याधरी
  2. 'रोमदामा' इति जीवातुसुखावबोधासाहित्यविद्याधरीसंमतः ।
  3. 'अत्र छेकानुप्रासोपमारूपकालंकाराः' इति साहित्यविद्याधरी
  4. 'पाठान्तरमिदम्, पूर्वश्लोकेनैव गतार्थत्वात् । एवमङ्केपि न पठन्ति' इति सुखावबोधा