पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
नैषधीयचरिते

 पृष्टस्थलीं वर्णयति-

  अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् ।

  स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायाम् ॥ ८८ ॥

 अस्या इति ॥ अस्या ग्रन्थ्या निबद्धाः केशाः केशपाशः, तत्र मल्लीकदम्बानि विकसितमल्लीकदम्बपुष्पसमूहास्तेषां प्रतिबिम्बस्य वेषात् व्याजात्पृष्टस्थलीहाटकपट्टिकायां सुवर्णघटितपट्टिकायां इयं दृश्यमाना रजताक्षरा रूप्यमयाक्षरा सरप्रशस्तिः कामयशःप्रशस्तिः । उत्तमस्य प्रशस्तिः सुवर्णपट्टिकायां रजताक्षरैर्लिख्यते । भैमीपृष्ठं सुवर्णपट्टिकारूपम् , तत्र केशप्रन्थिषु निबद्धमल्लीपुष्पाणां प्रतिबिम्बितत्वाद्रजताक्षरत्वम् । वेणीनिबद्ध केशपुष्पाणां पृष्ठे प्रतिबिम्बासंभवाद्ग्रन्थिनिबद्ध इत्युक्तम् । सुवर्णपट्टिकातुल्या मदनजनिका च भैमीपृष्ठस्थलीति भावः । खलु निश्च[१]ये ॥

 श्लोकद्वयेन नितम्बं वर्णयति-

  चक्रेण विश्वं युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन ।

  जगज्जिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन ॥ ८९ ॥

 चक्रेणेति ॥ मत्स्यकेतुः कामः पितुः श्रीकृष्णस्य सुदर्शनेन चक्रेण युधि विश्वं जितं वीक्ष्य वनाच्छादितत्वाद्दुर्लभदर्शनेनामुना नितम्बद्ध(म)येन नितम्बरूपेण चक्रेण कृत्वा जगज्जिगीषति किम् । किमिवार्थः । सुलभदर्शनेन पितुश्चक्रेण युधि जगज्जितम् । मया तु दुर्लभदर्शनेन सुदर्शनादधिकेन चक्रेण जेतव्यम् । पुत्रेण पित्रपेक्षयाधिकेन भवितव्यमिति मनीषया कामेन कृतमित्यर्थः । कामजनको भैमीनितम्ब इति भावः । जिगीषति, 'संल्लिटोर्जेः' इति कुत्वम्[२]

  रोमावलीदण्डनितम्बचक्रे गुणं च लावण्यजलञ्च बाला।

  तारुण्यमूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ९० ॥

 रोमेति ॥ बाला भैमी तारुण्यमूर्तेस्तारुण्यस्वरूपस्य (तारुमाकुलालस्य) कुचकुम्भकर्तुः कुचकुम्भकारस्य एतत् सहकारिचक्रं सहकारिकारणवृन्दं विभर्ति, अहं शङ्के। एतत्किम्-रोमावल्येव चक्रभ्रामकं दण्डम् , नितम्बरूपं चक्रम् , गुणं च शीलादिलक्षणमेव गुणं दोरकं च, लावण्यरूपं जलं च । कुम्भकारस्यापि दण्डचक्रजलदोरकलक्षणं सहकारिकारणं भवति । तारुण्ये सत्येतानि प्रादुर्भूतानीति भावः[३]

 वराङ्गं वर्णयति-

  अङ्गेन केनापि विजेतुमस्या गवेष्यते किं बलपत्रपत्रम् ।

  न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुत्तो भयेन ॥ ९१ ॥



  1. 'अत्र छेकानुप्रासोत्प्रेक्षापह्नुतिरूपकालंकाराः' इति साहित्यविद्याधरी
  2. 'अत्र रूपकोत्प्रेक्षाश्लेषालंकाराः' इति साहित्यविद्याधरी
  3. 'अत्र रूपकोत्प्रेक्षाश्लेषालंकाराः' इति साहित्यविद्याधरी