पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
नैषधीयचरिते

 विधायेति ॥ कदली इदमूरुचारुः अस्या ऊरुवच्चारुः तत्तुल्यकान्तिः तदा स्यात्तदा भवेत् , यदि मूर्धानमधश्चरमधोगतं विधाय कृत्वा तपोभिश्चान्द्रायणादिभिः कृत्वा स्वं स्वीयमसारभावं निःसारत्वं चेन्मुञ्चेत्त्यजेत् । तथा-बलीयः सार्वकालिकं जाड्यं चेन्नाञ्चेत्याप्नुयात् । तदैवैतदूरुतुल्या भवेत् । कदली भैम्यूरुतुल्यकान्तिर्यदि भवेत्तर्हि तदा भवेत् । एवं यदि कदली कुर्यात् , तदेदमूरुचारुः स्यान्नान्यथेत्यर्थः । ऊर्वोरूर्वदेशस्य स्थूलत्वात्, अधोदेशस्य च सूक्ष्मत्वात्ससारत्वाच्च, कदल्याश्चैतद्विपरीतत्वादिमूरुचारुत्वं न युज्यते । तस्मात्कदल्या तपसा इदमूरुचारुत्वं साध्यम् । अनुपमावेतदूरू इति भावः । अन्योऽपि मूर्धानमधो विधाय तपसा स्वीयमसारत्वं भूयिष्ठं मूर्खत्वं च त्यक्त्वोत्तमेन समानो भवति । 'सुषीमः शिशिरो जडः' इत्यमरः[१]

  ऊरुमकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः।

  युक्तं हिया कुण्डलनच्छलेन गोपायति खं मुखपुष्करं सः॥ ९५॥

 ऊर्विति ॥ तन्व्या ऊरुप्रकाण्डद्वितयेन ऊरुस्तम्भद्वयेन वारणीयो हस्तिसंबन्धी करः शुण्डादण्डः पराजीयत पराभूतः । अतः स करी कुण्डलनच्छलेन मण्डलीकरणव्याजेन ह्रिया लज्जया कृत्वा स्वं स्वीयं मुखभूतं पुष्करं गोपायति न दर्शयति तद्युक्तम्[२]

  अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली ।

  नानारदाह्लादिमुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ॥ ९६ ॥

 अस्यामिति ॥ अहं अस्यां व्यासादिमुनीनामपि मोहं ऊहे तर्कयामि । मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति । अथ च जितेन्द्रियाणामप्यस्यां विषये मोहं मदनविकारं तर्कयामि। तेऽप्यनया मोहिता इत्यर्थः । यस्मात् महानतितापसो भृगुः कुचशैलशीली कुचपर्वतसेवी । मुनीनां पर्वताश्रयत्वात्पर्वतबुद्ध्या स्तनावाश्रयति । अथ च कामपीडितत्वादत्युच्चावेतत्कुचौ मर्दयितुमिच्छति । अथ च भृगुरतटः[३] पर्वताश्रयेण वर्तते । कुचयोः पार्श्वभागोऽतटतुल्य इत्यर्थः । शीलमेव शैलं कुचयोः शैलं स्वभावं शीलयत्यभ्यस्यति, परमद्यापि कुचस्वभावो नायातीत्यर्थः । मुखं नारदमाह्लादयतीति नारदाह्रादि न नारदाह्नादि अनारदाह्लादि एवंविधं न भवति, किंतु नारदाह्नाद्येव । गानकलाभ्यासार्थ नारदो मुखसेवां करोतीत्यर्थः । मदनपीडितत्वादुन्मुखं चुम्बनाभिलाषिणं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैर्द्वात्रिंशत्संख्याकै रदैर्दन्तैरानन्दयति । अतिसुन्दरमित्यर्थः । महाभारतस्य सर्गे निर्माणे योग्यः समर्थो व्यासः श्रितौ ऊरू येनैवंविधः । कदलीस्तम्भच्छायाबुद्ध्या एतदूरू आश्रित्य तिष्ठति । अथ च कामपीडितत्वादेतदूरू समालिङ्गय वर्तत इत्यर्थः । महती भा दीप्तिर्यस्य । रतं सुरतं तस्य सर्गो निर्माणं तत्र योग्यः । ततः कर्मधारय इति वा । एवंविधो व्यासो विस्तारः श्रितावूरू येन । अतिविशालावूरू


  1. 'अत्रोत्पाद्योपमालंकारः' । 'अन्येषां मते त्वतिशयोक्तिरियम्' इति साहित्यविद्याधरी
  2. 'अत्रापहुतिसमासोक्त्यलंकारः' इति साहित्यविद्याधरी
  3. 'प्रपातस्त्वतटो भृगुः' इत्यमरः ।