पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
सतमः सर्गः ।

तौ। तथा-परिशुद्धः पाणिः पार्ष्णिग्राहो ययोरेवंभूतौ सन्तो कस्य राज्ञः भीतत्वान्नमस्कारार्थं नम्रेण शिरसा स्वसेवां कारयितुमिच्छू न जाने । अन्योऽप्येवंविधो राजा गूढमन्त्रत्वात्स्वसेवां केन कारयिष्यतीति न ज्ञायते । तेन प्रसिद्धेनोर्जितेन मूर्ध्ना जाने इति न । अन्यत्पूर्ववदिति वा [१]

  कर्णाक्षिदन्तच्छदबाहुपाणिपादादिनः स्वाखिलतुल्यजेतुः ।

  उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम् ॥ १०३ ॥

 कर्णेति ॥ स्वस्य आत्मनोऽखिलं समग्रं यत्तुल्यं पाशनीलोत्पलादि तस्य जेतुः जैत्रस्य कर्णादेः कर्णः, अक्षि नेत्रम्, दन्तच्छद ओष्ठः, बाहुः पाणिः, पादश्चरणः, एतेषां समाहारः, तत् आदिर्यस्य । आदिशब्दादङ्गुल्यादेरवयवस्य प्रत्येकमद्वयताभिमानात् मत्सदृशं सुन्दरमन्यन्नास्तीति अहमेवैकं सुन्दरमित्यद्वैतगर्वादुद्वेगभाक् क्रोधयुक्तः वेधाः इहैवास्यां भैम्यामेव द्वितीयं द्वयोः पूरणं कर्णादि कृतवान् । हे कर्णादयः, एवं गर्वं चेस्कुरुथ तर्हि भवद्गर्वशान्त्यर्थ भवत्सदृशमन्यमस्यामेव करिष्यामीति द्वितीयं कर्णादि कृतवानित्यर्थः । अतिक्रुद्धो हि तद्दर्पशान्तये तत्रैव प्रतिद्वन्द्विनं रचयति । भैमीकर्णो भैमीकर्ण इव, नान्येन तुल्यः । एवं नेत्रादावपि ज्ञातव्यम् । 'कर्णाक्षि-' इत्यादौ प्राण्यङ्गत्वादेकवद्भावः । 'स्वाखिल-' इति भापितपुंस्कम्[२]

  तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः ।

  पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्याभिक्षाधुना माधुकरीसदृक्षा ॥ १०४ ॥

 तुषारेति ॥ विधातुः इह एषु पञ्चसु आस्यम् , अङ्घ्री, करौ च एतेषु भैमीवदनचरण- द्वन्द्वपाणिद्वन्द्वेषु विषये अभिख्याभिक्षा शोभायात्रा माधुकरीसदृक्षा यतिभिक्षातुल्या। भवतीति शेषः । किंभूतस्य विधातुः-तुषारेण हिमेन निःशेषितमात्यन्तिकं विनाशितमनसर्गं कमलसृष्टिमधुना इदानीं पुनः विधातुकामस्य निर्मातुकामस्य । भिक्षा हि गृहपञ्चक एव भवति । मधुकरो ह्यनेकानि पुष्पाणि मधु याचित्वा स्वोदरभरणं करोति, तत्संबन्धित्वान्माधुकरी । कमलान्येतद्वदनादितुल्यानि नेति भावः । आस्यादीनां प्राण्यङ्गद्वन्द्वेऽपि पञ्चस्वित्यनेन संख्यापरिगणनात् 'अधिकरणैतावत्त्वे च' इत्येकवद्भावाभावः।

 अङ्गुलीवर्णयति-

  एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।

  इमे पदाब्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोत्र लेखाः ॥ १०५ ॥

 एष्यन्तीति ॥ स्मरार्ता नृपा इमे पदाने भैमीचरणकमले कर्मभूते शरणे रक्षके प्रबेष्टुं कामादस्मान्रक्षतं युवामिति वदन्तो यावद्गणनाद्यावत्संख्याकाद्दिगन्तात्सकाशा-


  1. 'अत्र रूपकश्लेषालंकारः । अर्थान्तरप्रतीतिस्तु रूपकादेव, तेन न समासोक्तिः' इति साहित्यविद्याधरी
  2. 'अनानन्वयोपमालंकारः' इति साहित्यविद्याधरी