पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमः सर्गः

गमने सृष्टया । अस्मिन्पक्षेपुरा लोकैः कृतया इत्यन्वयः । विजयाय लोकैः सृष्टया नीरस्य शान्त्युदकस्याजना क्षेपणा तया वा)। यद्वा-नलस्योञ्ज्वलैः शृङ्गारभूतैर्निजप्रतापैः, अनल्पानि दग्धान्यरिपुराणि यासु ता अनल्पदग्धारिपुराः । अत एव ज्वलन्तीर्देदीप्यमाना भुवो वैरिदेशान्वलयन्स्वाधीनीकुर्वन् । यद्वा-किंभूतं वलयम्---अनल्पा दग्धारयो यस्मिंस्तदनल्पदग्धारि । अस्मिन्पक्षे पुरा सृष्टया कृतया इत्यन्वयः । यद्वाकिंभूतो नल:--अनल्पा दग्धा रिपुरायो रिपुद्रव्याणि येन स तथा । 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । वलयच्ज्वलदित्यत्र पक्षे परसवर्णः । पक्षान्तरे तु श्रुत्वम् । 'राजघ इत्युपसंख्यानम्' इति निपातितः । जयायेति 'तुमर्थाच्ज-' इति चतुर्थी । यद्वा-स राज्ञां हन्ता नलः अजया लक्ष्म्या आय विष्णवे सृष्टया नीराजनया रेजे । राज्ञो विष्णुरूपत्वाल्लभम्या नीराजना क्रियते । यतः कारणात्प्रदक्षिणा प्रकृष्टा दक्षिणा दातृत्वं येषां ते प्रदक्षिणा वदान्यास्ते सन्ति यस्य स प्रदक्षिणी । अतिवदान्या अप्येतस्थानुचराः । इत्ययं वदान्यतम इत्यर्थः। यद्वा प्रकृष्टदक्षिणा ज्योतिष्टोमादयो यस्य सन्तीति प्रदक्षिणी । अत एव कृती कर्मकुशलः॥

निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः ।
न तत्यजुर्नूनमनन्यविश्रमाः प्रतीपभूपालमृगीदृशां दृशः ॥ ११ ॥

 निवारिता इति ॥ अतिवृष्टय ईतयः प्रतीपभूपालमृगीदृशां प्रतीपा वैरिणो भूपाला राजानस्तेषां मृगीदृशो नायिकास्तासां दृशो नेत्राणि नूनं प्रायेण न तत्यजुर्न मुमुचुः । नूनमुत्प्रेक्षायां वा । ईतयस्तस्य राष्ट्रे न सन्तीत्यर्थः । किंभूता अतिवृष्टयः--तेन नलेनाखिले महीतले निवारिताः प्रतिषिद्धाः । निष्कासिता इत्यर्थः । किंभूते महीतले-निरीतिभावं निगता ईतयो यस्मात्तन्निरीति तस्य भावस्तम् । गमिते प्रापिते । अतः अनन्यविश्रमा न विद्यतेऽन्योऽन्यत्र वा विश्रमो विश्रामस्थानं यासां ताः। अनेन सर्वेऽपि शत्रवो निहता इत्युक्तम् । यञ्च येन निष्कास्यते तत्तद्वैरिणमाश्रयति । स्त्रीणां च स्त्रिय एव शरणमित्युक्तिः । 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः। प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥' विश्रम इत्यत्र 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधः॥

सितांशुवर्णैर्वयति स्म तङगुणैर्महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे यशःपटं तन्द्बटचातुरीतुरी ॥ १२ ॥

 सितेति ॥ तन्द्बटचातुरीतुरी तद्गुणै रणाङ्गणे यशःपटं वयति स्म । तस्य नलस्य भटाः। यद्वा--स चासौ भटश्च तेषां तस्य वा चातुरी युद्धनैपुण्यं सैव तुरी निष्पन्नवस्त्रवेष्टन-


 १ 'मधुरावृत्तिरनुप्रासोऽलंकारः । लुप्तोपमालंकारश्चेति साहित्यविद्याधरी । निजप्रतापनीराजनया भूदेवता नीराजयन्निव रराजेत्युत्प्रेक्षा । साच व्यञ्जकेवाद्यप्रयोगाद्गम्या । किंच प्रतापैनींराजनया इति प्रतापानलस्य नीराजनत्वम् , अर्थादरिपुराणां वर्तित्वरूपगमकमित्येकदेशिविवर्तितदुत्थापिता चेयमुत्प्रेक्षेत्यनयोरङ्गाङ्गीभावेन संकरः' इति जीवातुः। २ 'नूनमनन्यविश्रमाः सत्यो दृष्टीर्न तत्यजुरित्यहं मन्य इत्युत्प्रेक्षालंकारः । तरुणीरोदनप्रतिपादनेन तेन सर्वेऽपि दुष्टभूपाः क्षयं नीता इति पर्यायोक्तमलंकारः । तथा चालंकारसर्वस्वे-- 'गम्यस्यापि भङ्गयन्तरेणाख्यानं पर्यायोक्तम्' । अतिवृष्टय इत्यतिशयोक्तिरिति साहित्यविद्याधरी