सृष्टेति ॥ विधिनैव इयं तावत् आदी अतिविश्वा जित त्रैलोक्या सृष्टा । अतिसुन्दरी कृतेत्यर्थः। अनन्तरं यौवनेन तस्याप्यतिविश्वसर्गस्यापि विधेर्वा उपरि नीता शैशवसौन्दर्यापेक्षयाधिकं सौन्दर्यं प्रापिता । तारुण्येऽतिसौन्दर्यं भवति । ततोऽप्यनन्तरं मनोभुवा कामेन वैदग्ध्यं सर्वव्यापारचातुर्यमध्याप्य शिक्षयित्वा वाक्पथस्य पारं परतीरमवापिता । वर्णयितुमशक्यत्वाद्वागगोचर इत्यर्थः । अथ च विद्यापार प्रापितेत्यर्थः । मदनवशादतिचतुरेयमित्यर्थः । अन्योऽपि प्राज्ञोऽध्यापितः सन्वाङ्मयपारं [१]प्राप्नोति ॥
इति स चिकुरादारभ्यैनां नखावधि वर्णय-
न्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।
हृदयभरणोद्वेलानन्दः सखावृतभीमजा-
नयनविषयीभावे भावं दधार धराधिपः ॥ १०९॥
इतीति ॥ स धराधिपो नलः सखीभिर्वृता भीमजा तस्या नयनविषयीभावे नयनगोचरत्वे भावमभिलाषं दधार । इदानीमात्मानं सखीसहितभैम्य दर्शयिष्यामीति तस्य
बुद्धिरुत्पन्नेत्यर्थः । प्रकटो जात इति भावः। इन्द्रवरदानात्सखीसहितयैव भैम्या द्रष्टव्यो
नान्येन केनचिदित्यभिप्रायः सूचितः । किं कुर्वन्-इति पूर्वोक्तप्रकारेण चिकुरादारभ्य
केशपाशमारभ्य नखावधि नखपर्यंतं हरिणरमणीवन्नेत्रे यस्यास्तामेनां भैमीं वर्णयन् ।
तथा-चित्राम्बुधौ अद्भुतसौन्दर्यदर्शनादेवाश्चर्यसमुद्रे तरत्प्लवमानमन्तरं मानसं यस्य
सः। साश्चर्यः । भैमीदर्शनादेव हृदयस्य भरणेन परिपूरणेन उद्वेलः वेलां मर्यादां तीरं
चातिक्रान्तोऽतिवहल आनन्दो यस्य सः । उद्वेलत्वेनानन्दस्य समुद्रत्वं सूचितम् । अन्यदप्युदकं गम्भीरं स्थानं परिपूर्य बहिर्निर्गच्छति । 'आरभ्यार्थयोगेपि' इति केचिदिति
चिकुरादिति पञ्चमी[२]॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं |
श्रीहर्षमिति ॥ गौडोर्वीशकुलस्य गौडदेशभूपालवंशस्य प्रशस्तिर्वर्णना तस्या भणिती रचना तस्या भ्रातरि एककर्तृकत्वात् । सापि येन रचितेत्यर्थः । वैरसेनिचरिते चारुणि महाकाव्येऽयं सप्तमः सर्गः अगमत् समाप्तिं प्राप्तः । भ्रातरीति भाषितपुंस्कम् ॥
इति श्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे सप्तमः सर्गः ॥