पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
नैषधीयचरिते

 इदानीं नलो दिक्पालदूत्यं कृतवानिति वक्तुमष्टमं सर्गमारभते-

  अथाद्भुतेनास्तनिमेषमुद्रमुन्निद्रलोमानममुं युवानम् ।

  दृशा पपुस्ताः सुदृशः समस्ताः सुता च भीमस्य महीमघोनः॥१॥

 अथेति ॥ अथ भैमीनयनविषयीभावाभिलाषानन्तरं ताः समस्ताः सुदृशः सख्यो महीमघोनो भीमस्य सुता भैमी च अमुं युवानं दृशा दृष्ट्या पपुः साभिलाषं ददृशुः। कीदृशम् अद्भुतेन भैमीसौन्दर्यजनितेनाश्चर्येण कृत्वा अस्ता त्यक्ता निमेषमुद्रा नेत्रसंकोचरीतिर्येन । अत एव सात्त्विकभाववशादुन्निद्रलोमानमुद्गतरोमाञ्चम् । दृशेत्येकवचनेन कटाक्षावलोकनं सूचितम् । अचिन्तितसुन्दरदर्शनादाश्चर्येण अस्तनिमेषमुद्रं यथा तथा पपुरिति वा । युवपदेन दर्शनयोग्यत्वं सूचितम् । भैमीमुखाः सर्वा अपि तत्परा जाता इति भावः[१]

  कियच्चिरं दैवतभाषितानि निन्होनुमेनं प्रभवन्तु नाम ।

  पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः ॥२॥

 कियदिति ॥ देवतासंबन्धीनि दैवतानां वा अन्तर्धिसिद्धिरूपाणि भाषितानि कियच्चिरं कियन्तं कालं एनं नलं निन्होतुं गोपायितुं प्रभवन्तु नाम समर्थानि भवन्तु । अपितु क्षणमात्रं गोपायितुं समर्थानि जातानि, न बहुकालमित्यर्थः । नामेति शिरश्चालने । अर्थान्तरन्यासमाह-हि प्रसिद्धं यस्मात् वा पलालजालैः नीरसतृणसमूहै:। पिहित इक्षोर्डिंम्भोऽङ्कुरः स्वयमात्मनैव प्रकाशं प्राकट्यं दृश्यत्वमासादयति प्राप्नोति । 'वृन्दारका दैवतानि' इत्यमरः[२]

  अपाङ्गमप्याप दृशोर्न रश्मिर्नलस्य भैमीमभिलष्य यावत् ।

  स्मराशुगः सुभ्रुवि तावदस्यां प्रत्यङ्गमापुङ्खशिखं ममज्ज ॥ ३ ॥

 अपाङ्गमिति ॥ नलस्य दृशोर्नेत्रयोः रश्मिर्दीप्तिः भैमीमभिलष्य अपाङ्गमप्यतिनैकट्यादविलम्बप्राप्यमपि नेत्रप्रान्तं यावन्नाप प्राप तावद 'स्मराशुगः सुभ्रवि सुन्दर्यामस्यां प्रत्यङ्गं प्रत्यवयवं पुङ्खस्य शिखा अग्रं तत् आ मर्यादीकृत्य, अभिव्याप्य (वा) ममज्ज । नलकर्तृकसाभिलाषदर्शनोपक्रममात्रेण प्रत्यङ्गं भैमी अतितरां कामाधीना जातेति भावः । अभिलाषं प्रति रश्मेरुपचारात्कर्तृत्वे समानकर्तृकत्वात् क्त्वो ल्यप् । आपुङ्खशिखम्, 'आङ्मर्यादाभिविध्योः' इत्यव्ययीभावः[३]


  1. 'अत्र छेकानुप्रासभावोदयालंकारौ' इति साहित्यविद्याधरी
  2. 'अत्रार्थान्तरन्यासः' इतिसाहित्यविद्याधरी ।'अत्र नलेक्षुडिम्भयोर्बिम्बप्रतिबिम्बभावेन समानधर्मनिर्देशादृष्टान्तालंकारः'इतिजीवातुः
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी