पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
नैषधीयचरिते

क्षणं विचार्य उदास्तोदासीनासीत् । क्षणमन्वरज्यत क्षणमुदास्तेति वा । अस्य चित्त- मस्यां पुनर्मुहुर्वलते स्म चञ्चलमभूत् । अथानन्तरमनेन नलेनास्य चित्तेन वा दूत्या- द्धेतोः पुनर्न्यवर्ति परावृत्तम् । दूत्याङ्गीकारे भैम्यभिलाषो न युक्त इति परावृत्तमि- त्यर्थः । उभयोरपि भूयाननुरागोऽभूदित्यर्थः । 'पुरः स्म' इति पाठे प्रथमम् ॥

 कयाचिदालोक्य नलं ललज्जे कयापि तद्भासि हृदा ममज्जे ।
 तं[१] कापि मेने स्मरमेव कन्या भेजे मनोभूवशभूयमन्या ॥ ६ ॥

 कयेति ॥ कयाचिद्वालया नलमालोक्य ललज्जे अनुरागवशात्प्रकटितलज्जानुभवया भूतम् । कयाचित्प्रौढया तद्भासि नलकान्तौ हृदान्तःकरणेन ममज्जे निमग्नम् । सौन्द- र्यदर्शनमात्रेणाश्चर्यपरया साभिलाषया स्मरपरवशया जातम् । कापि कन्या कुमारी तं स्मरमेव मेने । अतिसौन्दर्यात्स्मरजनकत्वाच्चेत्यर्थः । अन्या मनोभूवशभूयं कामवशत्व- मेव भेजेऽशिश्रियत् । अननुभूतसंभोगरसापि नले सानुरागा जातेति भावः। 'तं वीक्ष्य काचित्कुलजा ललज्जे' इत्यपि पाठः[२]

 कस्त्वं कुतो वेति न[३] जातु शेकुस्तं प्रष्टुमप्यप्रतिभातिभारात ।
 उत्तस्थुरभ्युत्थितिवाञ्छयेव निजासनान्नैकरसाः कृशाङ्गयः ॥७॥

 क इति ॥ कृशाङ्ग्यः अप्रतिभाया अप्रागल्भ्यस्यातिभारादतिबाहुल्याद्धेतोः इति तं प्रष्टुमपि जातु कदाचित्तत्र कंचित्कालं स्थिता अपि न शेकुः । इति किम्-कस्त्वं किंसं- ज्ञकः, कुतो वा देशादागत इति । तर्हि किं चक्रुरत आह-नैकरसा लजाभयानुरा- गादियुक्ताः सत्यः अभ्युत्थितिवाञ्छयेवाभ्युत्थानकाङ्क्षयेव निजासनात्स्वीयस्वीयास- नादुत्तस्थुरुत्थिताः । अन्योऽप्यप्रतिभोऽतिभारोऽपि किमपि वक्तुं न शक्नोति । ईहा- सद्भावेऽप्यूर्ध्वकर्मत्वादुत्तस्थुरित्यत्र तद्भावः[४]

 स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमप्यवाप।
 महारयं निर्झरिणीव वारामासाद्य धाराधरकेलिकालम् ॥।॥

 स्वाच्छन्द्यमिति ॥ भैमी तमालोक्य किमप्यनिर्वाच्यमानन्दपरम्पराणां स्वाच्छन्द्य- माधिक्यमवाप । 'छन्दः पद्येऽभिलाषे च' इत्यभिधानात्स्व आत्मीयश्छन्दोऽभिलाषो यस्य सः स्वच्छन्दो निरवग्रहः तस्य भावः स्वाच्छन्द्यम् । का कमिव-निर्झरिणी नदी धाराधरो मेघः तस्य केलिकालः क्रीडासमयः तं वर्षासमयमासाद्य प्राप्य वारां ज- लानां महारयं महावेगमाधिक्यमिव लभते(स्म)। दर्शनमात्रेण लोकोत्तरमानन्दं प्रा- पेति भावः[५]


  1. ‘स्मरं तमाशङ्कत कापि कन्या' इति सुखावबोधासाहित्यविद्याधरीसंमतः पाठः।
  2. 'अत्र भावोदयजात्यलंकारः' इति साहित्यविद्याधरी
  3. न शक्नुवत्यः' इति पाठः सुखावबोधासाहित्यविद्याधरीसंमतः ।
  4. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  5. 'अत्र छेकानुप्रासोपमालंकारः' इति साहित्यविद्याधरी