पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
नैषधीचरिते


 निरीति ॥ सा विदर्भसुभ्रूः भैमी तस्य नलस्य प्रथमं नितरां सादरमीक्षितमेकमङ्गम् , अवीक्षितं विशेषाकारेणानवलोकितं चान्यदङ्गम्, दृशा रभसेनौत्सुक्येन हर्षेण पिवन्ती सादरं विलोकयन्ती सती किंचिद्दृष्टाङ्गदर्शनविषयेऽपि सादरं दृष्टाङ्गजनितानन्देन समानं तुल्यमानन्दं दधाना धारयन्ती किं सर्वं दृष्टम्, किं चेषद्दृष्टम्, यद्वा किं सादरदृष्टम्, किं च सर्वथैवादृष्टमित्युभयोर्भेदं तारतम्यं न विवेद । तुल्यसौन्दर्यत्वाद्द्वयोरपि दर्शने तुल्यानुरागाभूदिति भावः। लोकस्य दृष्टेऽनादरः, अदृष्टे चोत्साहो भवति तथात्र तु न । उभयोरपि लोकोत्तरत्वादिति भावः । अन्यापि योगिनी दृष्टं घटादि, अदृष्टं वागगोचरं श्रुतिगम्यं ब्रह्मस्वरूपं च दृशा झानेन किं सारं किमसारमिति सादरं विचारयन्ती घटादिनिरसनेन श्रुत्यादिप्रमाणगम्यमानन्दस्वरूपं ब्रह्मसाक्षात्कारदशायामङ्गीकरोतीत्युक्तिः[१]

 सूक्ष्मे घने नैषधकेशपाशे निपत्य निस्पन्दतरीभवद्भयाम् ।
 तस्यानुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम॥१३॥

 सूक्ष्म इति ॥ तल्लोचनलक्षणाभ्यां खञ्जनाभ्यां तस्य केशपाशस्य सादरावलोकनलक्षणमनुबन्धं संबन्धम्, अथ च तन्निमित्तं बन्धनं विमोच्य त्यक्त्वा नापारि नाश(शा) कि । किंभूताभ्याम्-सूक्ष्मे धने निबिडे च नैषधकेशपाशे सादरावलोकनार्थे निपत्य नितरां पतित्वा सादरावलोकनादेव निस्पन्दतरीभवद्भयां नेत्रसंकोचरहिताभ्याम् । खञ्जनोऽपि पाशे पतितो बन्धनं विमोच्य पदमपि चलितुं न शक्नोति । भैमीदृष्टिश्चिरकालं केशपाशमेवावालोकतेति भावः । केशाः सूक्ष्मा घनाश्च । 'सूक्ष्मास्तु पाणिदशनाङ्गुलिपर्वकेशाः' इत्यादि लक्षणम् । 'पाशः कचान्ते सङ्घार्थः कर्णान्ते शोभनार्थकः । क्षत्राद्यन्ते च निन्दार्थः पाशः पश्यादिबधने ॥ इति विश्वः [२]

 भूलोकभर्तुर्मुखपाणिपादपद्मैः परीरम्भमवाप्य तस्य ।
 दमस्वसुर्दृष्टिसरोजराजिश्चिरं न तत्याज सबन्धुबन्धम् ॥ १४ ॥

 भूलोकेति ॥ दमस्वसुः भैम्याः दृष्टिसरोजराजिर्नॆत्रकमलपङक्ति तस्य भूलोकभर्तुर्नलस्य मुखपाणिपादलक्षणैः पद्मैः परीरम्भं संश्लेषमवाप्य सबन्धुबन्धं सगोत्रसंबन्धं सजातीयस्नेहं चिरं न तत्याज । मुखादीनां कमलत्वात्सगोत्रत्वम् । अन्योऽपि चिराद्बन्धुभिरालिङ्गनं प्राप्य झटिति न मुञ्चति । भैमीदृष्टिर्नलमुखाद्यतिरमणीयत्वाच्चिरमालोकतेति भावः । सबन्धुः 'ज्योतिर्जनपद-' इति सः। 'सगन्ध-' इति पाठे 'सगन्धो बन्धुरुच्यते [३]

 तत्कालमानन्दमयीभवन्ती भवत्तरानिर्वचनीयमोहा।
 सा मुक्तसंसारिदशारसाभ्यां द्विस्वादमुल्लासमभुङक्त मिष्टम् ॥१५॥


  1. 'अत्रातिशयोक्तिः काव्यलिङ्गं चालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र श्लेषरूपकालंकारौ' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्रासरूपकसमासोक्त्यलंकाराः' इति साहित्यविद्याधरी