पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
नैषधीचरित

तु पुनः हृष्यत्करुण उद्यत्कृपः सन् तच्चिन्ति तदघं चिन्तयति कर्तुमिच्छतीत्येवंशीलं भक्तस्य चित्तं रुणद्धि पातकात्परावर्तयति । येषामुपरि रघुनाथकृपा ते पातके सर्वथैव न प्रवर्तन्त इति न सर्वेषां पातकित्वप्रसङ्ग इति तात्पर्यार्थः । तच्चिन्ति परमेश्वरचिन्ति वा[१]

 सालीकदृष्टे मदनोन्मदिष्णुर्यथाप शालीनतमा न मौनम् ।
 तथैव तथ्येपि नले न लेभे मुग्धेषु कः सत्यमृषाविवेकः॥ १८ ॥

 सेति ॥ स्वभावतः शालीनतमातिसलज्जापि मदनेनोन्मदिष्णुरुन्मादवती सती सा भैमी अलीकदृष्टे मिथ्यादृष्टे नले विषये यथा मौनं नाप यथा पूर्वं किमप्यवादीत् तथैव तथ्ये सत्येऽपि नले मौनं न लेभे। अलीकबुद्ध्यैव सत्येऽपि नलेऽवोचदित्यर्थः । तत्कथमित्याशङ्क्याह-मुग्धेषु मूढेषु सत्यस्य मृषा असत्यस्य विवेको विचारः कः, अपितु न । अतो न धृष्टतया वचनं दोषायेति भावः । 'शालीनतया' इति वा पाठः । अपशालीनतयापगतशालीनतया यथा मौनं न लेभे तथैव तथ्येऽपीति वा व्याख्येयम् ॥

 व्यर्थीभवद्भावपिधानयत्ना स्वरेण साथ श्वथगद्गदेन ।
 सखीजने साध्वसबद्धवाचि स्वयं तमूचे नमदाननेन्दुः ॥ १९ ॥

 व्यर्थीभवदिति ॥ अथ सा भैमी स्वयमात्मना तं नलमूचे । क्व सति-सखीनां चये समूहे साध्वसेनान्तःपुरे परपुरुषप्रवेशाज्जातेन साध्वसेन कृत्वा बद्धा वाक् येन कृतमौने सति । किंभूता सा-श्लथो विरलः, गद्गश्च च्छिन्नस्तेन स्वरेण शब्देन कृत्वा व्यर्थीभवन् भावपिधानयत्नः सात्त्विकभावगोपनप्रयासो यस्याः । तथा-अत एव नमन्नम्रीभूत आननेन्दुर्मुखचन्द्रो यस्याः सा! 'अथ स्वरेणैव विभावयन्ती भावं निजं सा मृदुगद्गदेन' इत्यपि पाठः स्पष्टार्थः [२]

 स्वधाष्टर्यं परिहरति-

 नत्वा शिरोरत्नरुचापि पाद्यं संपाद्यमाचारविदातिथिभ्यः ।
 प्रि[३]याक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः ॥ २० ॥

 नत्वेति ॥ त्रिभिर्विशेषकम् । हे पुरुषश्रेष्ठ, आचारविदा सदनुष्ठानज्ञेन, धर्मशास्त्रविदा वा पुंसा नत्वा शिरोरत्नरुचा चूडामणिदीप्त्याप्यतिथिभ्यः पाद्यं पादार्थं वारि संपाद्यं देयम् । जलाभावे नत्यापि तावच्चरणक्षालनसंभावना कर्तव्या । तस्या रत्नरुचो जलतुल्यत्वादित्यर्थः। आदौ नमस्कारः कर्तव्य इति भावः । आचारविदातिथिभ्यः इति प्रतिवाक्यं श्लोकत्रयेपि ज्ञेयम् । वैधी विधिसंबन्धिनी नोदनावाक्यादागता मधु-


  1. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र भावोदयो रूपकालंकारः' इति साहित्यविद्याधरी
  3. 'उक्त्यापि युक्ता मधुपर्कतृप्तिर्न तद्गिरस्त्वादृशि धृष्टता मे' इति पठित्वा 'त्वादृशि भवत्सदृशि भवत्सदृशे प्राघूर्णके मे मम वाचो धृष्टता धाष्टर्यं दूषणं न भवति' इति व्याख्यातं सुखावबोधासाहित्यविद्याधर्योः। चतुर्थतृतीयपादव्यत्यासेनापि कुत्रचित्पाठः ।