पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
नैषधीयचरिते

दण्डस्तस्य नलस्य गुणैः, तैः प्रसिद्धैर्वा शौर्यादिगुणैः, अथ च गुणैस्तन्तुभिः सङ्ग्रामाङ्गणे यशोलक्षणपटं विस्तारितवती । निरमासीदित्यर्थः। किंभूतैर्गुणैः-सितांशुश्चन्द्रस्तद्वद्वर्णः सारूप्यं येषां तैः । धवलेरित्यर्थः । कीदृशी-महान्योऽसिः खगः स एव वेमा वयनकाष्ठं तस्य सहकृत्वरी सहकारिणी । किंभूतं यशःपटम्-बहुं महापरिमाणम् । अत एव दिश एवाङ्गनास्तासामङ्गानामावरणमाच्छादकम् । सर्वदिग्व्याप्यस्य यश आसीदित्यर्थः । 'परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि' इति न्यायेन भटेरेव नलशौर्ये विनैव वैरिणो हताः। दिग्व्यापि यशो नलस्याकारीति भावः । तन्तुवायतुर्याः सकाशादियं तुर्यन्यादृशी । सा प्रत्येकमावरकमने पटं वयति । इयं तु तद्विपरीता इति व्यतिरेकः । वेमा पुंसि । वयति स्म इति 'लट् स्मे' इति भूते लट् । सहकृत्वरीति 'राजनि युधि कृञ:' इति वर्तमाने 'सहे च' इति क्वनिपि 'वनो र च' इति ङीब्रौ । चातुर्यमेव चातुरी । व्यञः षित्त्वान्ङीष् ॥

प्रतीपभूपैरिव किं ततो भिया विरुद्धधमैरपि भेत्तृतोज्झिता।
अमित्रजिन्मित्त्रजिदोजसा स यद्विचारहक्चारगप्यवर्तत ॥१३॥

 प्रतीपेति ॥ विरुद्धधमैरपि मिथोविरोधिस्वभावैरपि धर्मः स्वभावः ततो नलाद्भिया भयेन भेत्तृता विरुद्धत्वमुज्झिता किम् । कैरिव-प्रतीपभूपैरिव प्रतिकूलराजभिर्यथा भेत्तृतोपजापकारित्वं त्यक्ता । उपजापोऽन्तर्भेदः । कुत एतज्ज्ञातमत आह-यद्यस्मात्स नल ओजसा अमित्रजिदमित्रान्वैरिणो जयतीत्यमित्रजित् । तथा ओजसा (तेजसा) मित्रजित् (सूर्यमपि जयतीति) अवर्ततासीत् । स चारदृगपि विचारदृगवर्तत । चारा एव दृग्यस्य स चारदृक् । विगता चारा एव दृग्यस्य स विचारदृक् । योऽमित्रजित्स मित्रजित्कथम्, यश्चारदृक्स विचारदृक्कथमिति विरुद्धधर्मास्तैर्भेत्तृतोज्झिता । कथम्-तेजसा मित्र्नजित्तेजसा मित्र्नं सूर्यं जयतीति मित्रजित् , तथा विचारः शास्त्रमेव विवेको वा दृग्यस्य स विचारदृक्, चारा एव दृग् यस्य स चारदृक् । अपिश्चार्थे विरुद्धपक्ष उभयत्रापि योज्यः। अथ च विरुद्धत्वम्-अमित्रजिद्यः स मित्रजित्कथम्, असुहृदं यो जयति स सुहृदं कथं जयति । अथ च यः असूर्यं जयति स सूर्यं कथं जयतीति विरोधः । तत्परिहारः पूर्वव्याख्यानात् । विचारं पश्यतीति विचारदृग्वा । 'चारैः पश्यन्ति राजानः' इति । एतेन शत्रुजित्त्वं शास्त्रमार्गगामित्वं चोररक्षणत्वं च व्यक्तीकृतम् । एतेन विजिगीषुत्वं नलस्य द्योतितम् 'आरर्मित्र्नमरेमित्र्नं मित्र्नमित्रमतः परम् । तथारिमित्र्नमिञ्ज्ं च विजिगीषोः पुरःसराः॥ पाष्ण्ऱिग्राहस्ततः पश्चादास्कन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोश्च पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥' इति द्वादशराजमण्डली । तत इति 'भीत्रा-' इत्यपादानत्वम् ॥

तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥१४॥


१. 'अत्र रूपकमलंकारः । गुणैरिति श्लिष्टशब्दः' इति साहित्यविद्याधरी । २ 'अत्र विरोधालंकारः 'आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति लक्षणात् । एतदुपजीवनेन विरुद्धधर्माध्यासस्य चाश्रयभेदकत्वादुत्प्रेक्षा । सा च प्रतीपभूपैरिवेत्युपमानुप्राणितेति त्रयाणां संकरः' इति जीवातुः ।