पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
अष्टमः सगः।

  सेयं न धत्तेऽनुपपत्तिमुच्चैर्मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने।

  ममौ स भद्रं चुलुके समुद्रस्त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥ ४५ ॥

 सेति ॥ अगस्त्यप्रसृतौ समुद्रः कथं ममाविति महतीमनुपपत्तिं पूर्वं या प्राप सेयं मञ्चित्तवृत्तिस्त्वयि चिन्त्यमाने विचार्यमाणे सति तामतिमहतीमनुपपत्तिमघटमानतामिदानी न धत्ते धारयति । कुतः-यतः त्वया आत्ते गृहीते गाम्भीर्यमहत्त्वे गम्भीरताविशालते एव मुद्रा चिह्नं यस्य स समुद्रः भद्रं सुखेन अगस्त्यस्य चुलुके ममौ । गाम्भीर्यस्य महत्त्वस्य च त्वया गृहीतत्वान्न काप्यनुपपत्तिः। मुद्रादप्यतिगम्भीरोऽतिमहांश्च त्वमिति भावः । आत्तेत्याङ्पूर्वस्य दातेः 'अच उपसर्गात्तः' इति तः[१]

  संसारसिन्धावनुबिम्बमत्र जागर्ति जाने तव वैरसेनिः ।

  बिम्बानुबिम्बौ हि विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः॥४६॥

 संसारेति॥ अत्राम्सिन्संसाररूपे जगत्त्रयरूपे सिन्धौ समुद्रे वैरसेनिः नलः तव अनुबिम्बं प्रतिविम्बं जागर्ति स्फुरतीति जाने । नल एव त्वत्सदृशो नान्य इत्यर्थः। सिन्धुपदं प्रतिबिम्बसंभावनार्थम् । हि यस्माद्धातुब्रह्मणोऽतिसरूपयोरतिसमानसौन्दर्ययोर्वस्तुनोः सृष्टिनिर्माणं बिम्बानुबिम्बौ बिम्बप्रतिबिम्बौ विहाय त्यक्त्वा जातु कदाचिदपि न दृष्टा । बिम्बसदृशं प्रतिबिम्बमेव, नान्यदित्यर्थः । अतिसरूपो नलः, तस्यानुबिम्बस्त्वमित्यर्थ: । नलसदृशोऽसीति भावः[२]

  इयत्कृतं केन महीजगत्यामहो महीयः सुकृतं जनेन ।

  पादौ यमुद्दिश्य तवापि पद्यारजःसु पद्मस्रजमारभते ॥ ४७ ॥

 इयदिति ॥ केन जनेन महीजगत्यां भूलोके इयदनिर्वचनीयं महीयोऽतितरां महत्सुकृतं कृतम् । अहो आश्चर्यम् । तवापि सम्राजोऽतिसुकुमारस्यापि पादौ चरणौ यमुद्दिश्य पद्यारजःसु मार्गरजःसु पद्मस्रजं लक्षणभूतकमलमालामारभेते आरचयतः । भूलोके 'कः पुण्यवानेवंविधः यमुद्दिश्य कार्यार्थ त्वमपि चरणचारी गच्छसि, तं कथयेति भावः । स्वर्गे सुकृती संभाव्यते, भूलोके तु विद्यत इत्याश्चर्यम् । 'महीमहेन्द्रमहः' इति पाठे महीमहेन्द्रवन्नलवन्महस्तेजो यस्येति संवृद्धिः। 'सरणिः पद्धतिः पद्या' इत्यमरः । पद्या, 'पदमस्मिन्दृश्यम्' इति यत्[३]

  ब्रवीति ते किं किमियं न जाने संदेहदोलामवलम्ब्य संवित् ।

  कस्यापि धन्यस्य गृहातिथिस्त्वमलीकसंभावनयाथवालम् ॥४८॥


  1. 'अत्र विरोधातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्र मानहेतोरात्तेत्यादिविशेषणगत्या निर्देशात्पदार्थहेतुकं काव्यलिङ्गमलंकारः तत्संकीर्णेयमुत्प्रेक्षा भद्रमिति व्यञ्जकप्रयोगाद्वाच्या।' इति जीवातुः
  2. 'अत्रार्थान्तरन्यासोपमोत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।