पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
अष्टमः सर्गः।

त्येव । वैरिसमाश्रयेणान्यदरुच्यं भवति, स्तुतिस्तु रुच्यैव भवति सा स्वप्रियाश्रया रुच्यतरा कथं न भवतीत्याशयः । आमञ्जम् , 'अनश्च' इति टच्[१]

  पौरस्त्यशैलं जनतोपनीतां गृह्णन्ययाहूः पतिरर्यपूजाम्।

  तथातिथेयीमथ संप्रतीच्छन्प्रियार्पितामासनमाससाद ॥ ५२ ॥

 पौरस्त्येति ॥ अथ अह्नः पतिः सूर्यः जनतया जनसमूहेनोपनीतामर्पितामर्घलक्षणां पूजां गृह्णम्नङ्गीकुर्वन् यथा पुरोभवं पौरस्त्यं शैलमुदयाचलमासादयति, तथा प्रियार्पितां भैम्या वितीर्णामातिथेयीमतिथिषु साध्वीं पूजां संप्रतीच्छन्स्वीकुर्वन् स नलः अस्या भैम्या (आसनम् 'अस्या वयस्यासनम्' इति पाठे अस्या भैम्या) वयस्यासनं सख्यासनमाससाद भेजे । स्वस्य दूतत्वाद्भैम्यासनं त्यक्त्वा सख्यासनं भेजे इत्यर्थः । पौरस्त्यम्, भवार्थे 'दक्षिणापश्चात्-' इति त्यक् । आतिथेयीम्, साध्वर्थ 'पथ्यति इति ढञि ङीप्[२]

  अयोधि तद्धैर्यमनोभवाभ्यां तामेव भैमीमवलम्व्य भूमीम्।

  आह स्म यत्र स्मरचापमन्तश्छिन्नं भ्रुवौ तज्जयभङ्गवार्ताम् ॥५३॥

 अयोधीति ॥ तद्धैर्यमनोभवाभ्यां तस्य नलस्य धैर्यकामाभ्यां कर्तृभ्यां तां भैमीमेव भूमीं स्थानमवलम्ब्याश्रित्य भैमीमेव विषयं कृत्वा च परस्परमयोधि युद्धमकारि । भैमीविषयं धैर्यं कर्तृं भैमीविषयमदनजिगीषया युद्धं चकार, मदनश्च धैर्यजिगीषयेत्यर्थः । यत्र भैमीलक्षणायां युद्धभूमावन्तर्मध्ये छिन्नं भूरूपं कामचापं कर्तृ तयोधैर्यकामयोर्यथाक्रमं जयस्य भङ्गस्य पराजयस्य च वार्तां कथामाह स्म ब्रवीति स्म । भैमीरूपायां सङ्घामभूमौ पतितं भैमीभ्रूरूपं कामचापं छिन्नं धैर्यस्य विजयं, कामस्य पराजयं कथयति स्मेति भावः । यस्य धनुर्भङ्गस्तस्य पराजयोऽन्यस्य च जय इति लोकप्रसिद्धिः । भैम्यामुत्पन्नमपि कामं धैर्येण नाजीगणदिति भावः । भ्रुवोरसंलग्नत्वं सामुद्रकोक्तं लक्षणम् [३]

  अथ स्मराज्ञामवधीर्य धैर्यादूचे स तद्वागुपवीणितोऽपि ।

  विवेकधाराशतधौतमन्तः सतां न कामः कलुषीकरोति ॥ ५४॥

 अथेति ॥ अथ तस्या भैम्या वाग्रूपया वीणया उपवीणितोऽप्युपगीतोऽपि स नलः धैर्यात्स्मराशामवधीर्य ऊचे । वीणयोपगायने हि कामाधीनत्वं युक्तं। धैर्यात्तन्न जातमित्यर्थः। धैर्याधिक्यात्कामो व्यवहितो नतु सर्वथा शान्त इति ज्ञातव्यम् । अन्यथा रसभङ्गः स्यात् । अर्थान्तरन्यासमाह-कामः विवेकधारया विचारप्रवाहेण शतवारं


  1. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी । 'कैमुत्येन स्वादुत्वोत्कर्षप्रतिपादनादर्थापत्त्यलं. कारः तस्य वाक्यभूतस्य आमज्जं सुधामज्जनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमिति संकरः' इति जीवातुः।
  2. 'अत्र छेकानुप्रासोपमालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र रूपकसमासोक्त्यलंकारः' इति साहित्यविद्याधरी।