पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
नैषधीयचरिते

धौतमुज्ज्वलीकृतं सतामन्तः मानसं न कलुषीकरोति । तस्मादुचितमेतदित्यर्थः । अवधीयति पूर्ववत्[१]

  हरित्पतीनां सदसः प्रतीहि त्वदीयमेवातिथिमागतं माम्।

  वहन्तमन्तर्गुरुणादरेण प्राणानिव स्वःप्रभुवाचिकानि ॥ ५५ ॥

 हरिदिति ॥ हे भैमि, त्वं मां हरितां दिशां पतयः तेषां दिक्पालानां सदसः सभातः आगतं त्वदीयमेवातिथिं प्रतीहि जानीहि । किंभूतं माम्-स्व-प्रभवो दिक्पालास्तेषामिन्द्रादीनां वाचिकानि संदेशवचनानि गुरुणा आदरेण प्राणानिव अन्तः हृदये वहन्तं धारयन्तम् । अहं त्वदर्थं देवैर्दूतः प्रेषित इत्यर्थः। कुत आगतः, कस्यातिथिरिति प्रश्नस्योत्तरं दत्तम् । गुरुणादरेणेत्यनेन दूतधर्मो दर्शितः[२]

  विरम्यतां भूतवती सपर्या निविश्यतामासनमुज्झितं किम् ।

  या[३] दूतता नः फलिना विधेया सैवातिथेयी पृथुरुद्भवित्री ॥५६॥

 विरम्यतामिति ॥ हे भैमि, त्वया विरम्यतां निर्व्यापारतया स्थीयताम् । यतः-सपर्या पूजा भूतवती जाता। निविश्यतामुपविश्यताम् । दूतदर्शनमात्रेणासनं किमित्युज्झितं त्यक्तम् । अतिथिदर्शने एतत्कर्तव्यमिति कृतमित्याशङ्याह-या नोऽस्माकं दूतता फलिना फलवती विधेया करणीया सैव पृथुमहती आतिथेयी अतिथिपूजा उत् उच्चैस्तरां भवित्री भविष्यति । आसनादिपरित्यागस्तूपचार एव । स न कार्यः, किंतु यदर्थमागतोस्मि तत्सफलयेत्यर्थः । 'फलिता' इत्यपि पाठः फलिनेति 'फलबर्हाभ्यामिनन्' अस्त्य[४]र्थे ॥

  कल्याणि कल्यानि तवाङ्गकानि कच्चित्तमां चितमनाविलं ते ।

  अलं विलम्बेन गिरं मदीयामाकर्णयाकर्णतटायताक्षि ॥ ५७ ॥

 कल्याणीति ॥ हे कल्याणि शोभनरूपे, तव अङ्गकानि कोमलान्यङ्गानि कल्यानि समर्थानि नीरोगाणि कच्चित्तमाम् । अतिशयेन नीरोगाणि किं कथयेत्यर्थः । ते चित्तं अनाविलं कालुष्यरहितं कच्चित्तमा विद्यते । विलम्बेनालम् । एतावानेव कुशलप्रश्नोस्तु, अन्यत्प्रष्टुमयुक्तम् । प्रकृतकार्यविरोधात् । प्रकृतमेवाह-हे आकर्णतटायताक्षि आकर्णपूर्णनयने भैमि, त्वं मदीयां वक्ष्यमाणां गिरमाकर्णय । 'निरामयः कल्यः' इत्यमरः ।

कञ्चित्तमाम् , 'किमेत्तिङव्यय-' इत्यामु[५]


  1. 'अत्र विशेषोक्त्यर्थान्तरन्यासालंकारः' इति साहित्यविद्याधरी । 'अत्र पूर्वार्धे स्मरधैर्ययोर्धावितचित्तस्य धैर्यनियमनात्परिसंख्यालंकारः । तस्योत्तरार्धे सामान्येन समर्थनात्सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः' इति संकरः' इति जीवातुः ।
  2. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी ।
  3. 'इत्यं हि यन्नः फलितं विधेयम्' इति साहित्यविद्याधरी।
  4. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  5. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी