पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
प्रथमः सर्गः

 तदोजस इति ॥ विधिब्रह्मा यदा यदा इति पूर्वोक्तं चित्ते मनसि कुरुते । विचारयतीत्यर्थः । तदा तदा भानोः सूर्यस्य विधोरपि चन्द्रस्य च परिवेषकैतवात्परिवेषव्याजात्कुण्डलनां वैयर्थ्यसूचकं रेखामण्डलं करोति । इतीति किम्-तदोजसो नलप्रतापस्य, तद्यशसो नलयशसश्च स्थितौ सत्यामिमौ सूर्याचन्द्रमसौ वृथा निष्प्रयोजनाविति, तदोजसस्तद्यशंसश्च हेतोरिमौ वृथा स्थिताविति वा । सूर्याचन्द्राभ्यां यत्करणीयं तन्नलतेजोयशोभ्यामेव क्रियते । सूर्यतुल्यं चन्द्रतुल्यं चास्मिन्द्वयम् । परिवेषस्य कादाचित्कत्वाद्यदा यदा इत्युक्तम् । कैतवादिति भावे युवादित्वादण् । वृथालिखितग्रन्थस्य कुण्डलनया लोपः क्रियते तथेत्यर्थः ||

 तस्य वदान्यत्वं वर्णयति-

अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रतां नलः॥१५॥

 अयमिति ॥ स नृपो नलोऽर्थिजनस्य याचकजनस्य ललाटे जाग्रती वैधसी ब्राह्मीमिति लिपिं मृषा मिथ्या न चक्रे, किंतु षष्ट्यां ब्रह्मणा लिखितत्वात्सत्यामेव चकार । इत्तीति किम्-अयं याचकलोको दरिद्रो निर्धनो भविता भावीति वैधसी लिपिः । तर्हि तस्यानौदार्यत्वप्रतीतेः कथं वदान्यत्वमित्याशक्न्योक्तिभङ्ग्या समाधत्ते--किं कुस्वा-दारिन्ध्यदरिद्रतां प्रणीय दारिन्यस्यैव दरिद्रताम् । राहित्यमित्यर्थः । तां प्रणीय निर्माय । वैधसीं लिपिं मृषा न चकारेत्यर्थः । यतोऽल्पितकल्पपादपः अल्पितोऽल्पीकृतः कल्पपादयः कल्पवृक्षो येन । कथम्-कल्पवृक्षो याचितमेव ददाति, नलस्त्वयाचितमपि । अतो वदान्यतम इत्यर्थः । नलराज्ये कोऽपि दरिद्रो नाभूदित्यर्थः । यद्वा-अकल्पितं धनं दत्त्वा ब्राह्मी लिपि मृषा न चक्रे, अपि तु कृतवानेवेति काकुः। अल्पित इति 'तत्करोति-' इति ण्यन्तानिष्ठा ॥

प्रकारान्तरेण पुनरपि नितरां वदान्यत्वमाह--

विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं व्डिफालबद्धाश्चिकुराः शिरःस्थितम् ||१६||

 विभज्येति ॥ तेन नलेन तत्तस्मात्करणाद्वाभ्यां फालाभ्यां भागाभ्यां बद्धाः संयमिताश्चिकुराः केशा एव निजं स्वीयमयशसोंऽकीर्तेर्युगममान्यमन्यत । शिरसि सीमन्तस्योभयभागे स्थिताः केशा न भवन्ति, किंत्वकीर्तिद्वयमेव । तत्किम्--यद्यस्मान्मया नलेन मेरुर्हेमाद्रिविभज्य खण्डशो विधायार्थिसाद्याचकायत्तोऽर्थ्य-


१ 'अत्र सूर्याचन्द्रमसोः कुण्डलनोत्प्रेक्षणात्सापह्रवोत्प्रेक्षा । साच व्यञ्जकाप्रयोगाद्गम्येति जीवातुः । अत्र प्रतीपमलंकारः । यदुक्तमलंकारसर्वस्वे-- 'उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् । स परिवेषो न भवति, किंतु परिवेषव्याजेन निरर्थकत्वप्रतिपादिका कुण्डलनासावित्यपहुतिरलंकारः 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः' इति इति साहित्यविद्याधरी ।