पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
अष्टमः सगः।

 श्लोकत्रयेण चतुर्णामपि साधारण्येन दूत्यं करोति-

  कौमारमारभ्य गणा गुणानां हरन्ति ते[१] दिक्षु धृताधिपत्वान् ।

  सुराधिराज सलिलाधिपं च हुताशनं चार्यमनन्दनं च ॥ ४८ ॥

 कौमारमिति ॥ हे भैमि, कौमारमारभ्य बाल्यादारभ्य ते गुणानां गणाः सौन्दर्यशीलत्वादयः दिक्षु धृतमाधिपत्यं यैस्तान्देवेन्द्रान्हरन्ति । तानेवाह-सुराधिराजमिन्द्रम् , सलिलाधिपं वरुणं च, हुताशनमग्निम् , अर्यम्णः सूर्यस्य नन्दनं पुत्रं यमं च । त्वद्गुणाकर्णनाच्चत्वारोपि त्वय्यनुरक्ता इत्य[२]र्थः ॥

  चरचिरं शैशवयौवनीयद्वैराज्यभाजि [३] त्वयि खेदमेति ।

  तेषां रुचश्चौरतरेण चित्तं पञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥ ५९॥

 चरदिति ॥ शैशवं यौवनं (च) तत्संबन्धि शैशवयौवनीयं द्वैराज्यं भजते तस्यां वयः- संधौ वर्तमानायां त्वयि चिरं चरत् तव शैशवमारभ्य चञ्चलमासक्तं सत् तेषां चित्तं खेदं दुःखमेति प्राप्नोति । किंभूतं चित्तम्-पञ्चेषुणा कामेन लुण्ठितं धैर्यमेव वित्तं यस्य । किंभूतेन कामेन-अतिपीडितत्वाद्रुचः शरीरकान्तेः चौरतरेण । विरहातुरस्याङ्गकान्तििर्हीना भवति । त्वय्यासक्तत्वाद्धैर्यापगमात्त्वद्विरहपीडाया असह्यत्वम् । अन्योपि राज्यद्वयमध्ये सीमायां चरति, स धनुर्धरेण केनचिदपहृतधनो दुःखं प्राप्नोति । द्वैराज्य इति टचि भावे ष्यञ्[४]ञ् ॥

  तेषामिदानीं किल केवलं सा हृदि त्वदाशा विलसत्यजस्रम् ।

  आशास्तु नासाद्य तनूरुदाराः पूर्वादयः पूर्ववदात्मदाराः॥६०॥

 तेषामिति ॥ किल निश्चये । इदानीं त्वत्तारुण्यदशासमये सा त्वदाशा त्वत्प्राप्ति- तृष्णा तेषां हृदि केवलं निश्चितं अजस्रं सर्वदा विलसति स्फुरति । उदारा महतीः सुन्दरीश्च तनूः, शरीराण्यासाद्य कृत्वा आत्मदाराः स्वीयाः स्त्रियः पूर्वादय, आशा दिशः तु पुनः पूर्ववन्न स्फुरन्ति । प्राच्यादीनां शरीरमपि विद्यते । त्वय्येवासक्तत्वात्सुन्दरीरपि दिशो यथा पूर्वं पालितवन्तः, तथेदानीं नेति, एकया त्वदाशया भूयस्योऽप्याशाः परित्यक्ता इति च भावः। अन्योऽपि नवीनायां कस्यांचिदनुरक्तः सन् जीर्णशरीरां प्रथमां स्वस्त्रियं त्यज[५]ति ॥

 सामान्यतः सर्वेषां दूत्यं कृत्वेदानी मुख्यत्वात्पूर्वमिन्द्रं स्तौति-

  अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ।

  प्रेमापि तन्वि त्वयि वासवस्य गुणोपि चापे सुमनःशरस्य ॥६१॥


  1. ते भैमि दिशामधीशान्' इति सुखावबोधा-साहित्यविद्याधरीसंमतः पाठः ।
  2. 'अत्र छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी।
  3. 'त्वयि खिद्यतेऽद्य' इति सुखावबोधासाहित्यविद्याधरीसंमतः पाठः ।
  4. 'अन्योक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्र पञ्चेषुचौरेण तेषां धैयवित्तं हृतम्, इति रूपकम् । तद्धेतुत्वात्खेदस्य वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः, इति संकरः ।' इति जीवातुः
  5. 'अत्रासंबन्धे संबन्धरूपातिशयोक्तिरलंकारः इति साहित्यविद्याधरी।