पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
नैषधीयचरिते

 अनेनेति ॥ हे भैमि, त्वयि विषये अच्छिदुरोऽतिदृढः असीमा निर्मर्यादः वासवस्य प्रेमानुरागोप्यनेन प्रत्यक्षदृश्येन तव यौवनेन साध सह परां कोटिं परमां काष्ठामध्यरोहत्प्राप । यथा तव यौवनमत्युत्कर्ष प्राप्तं, तथा त्वय्यनुरागोऽपीत्यर्थः। यदाप्रभृति तव यौवनप्रादुर्भावस्तदाप्रभृति त्वयीन्द्रानुराग इत्यर्थः । न केवलमिन्द्रप्रेमैव, किंतु सुमनःशरस्य कामस्याच्छिदुरो गुणोपि मौर्व्यपि चापे धनुषि परां द्वितीयां कोटिमटनिमारूढा । त्वद्यौवनमारभ्येन्द्र पराभवितुं कामेन चापे गुणः समारोपीत्यर्थः । तदाप्रभृति कामेनेन्द्रः पीड्यत इति भावः[१]

  प्राचीं प्रयाते विरहादयं ते तापाच्च रूपाच्च शशाङ्कशङ्की ।

  परापराधैर्निदधाति भानौ रुषारुणं लोचनवृन्दमिन्द्रः ॥ ६२ ॥

 प्राचीमिति ॥ अयमिन्द्रः परापराधैश्चन्द्रापराधैर्लोचनवृन्दं नेत्रसमूह रुषा क्रोधेन अरुणं रक्तं प्राचीं प्रयाते उदितमात्रे भानौ निदधाति निक्षिपति । किंभूतः ते विरहाद्धेतोः तापात्संतापजनकत्वात् , रूपाच्च रक्तवर्तुलस्वरूपत्वाच्च हेतोः भानावेव शशाङ्कशङ्की कृतचन्द्रशङ्कः सन् । स्वरूपाचन्द्रकार्यकारित्वाच्च ममापकारकश्चन्द्र एवायमिति बुद्ध्या चन्द्रापराधस्मरणात्स्वदिशि वर्तमानं सूर्यं क्रोधरक्तैरीक्षणैः पश्यतीत्यर्थः । अन्यापराधेनान्यस्मिन्रोष इत्याश्चर्यं च । चन्द्रस्त्वद्विरहात्तं पीडयतीति भावः। 'विरहं दधत्ते' इति च पाठः। ते विरहं दधदितीन्द्रविशेषणम्[२]

  त्रिनेत्रमात्रेण रुषा कृतं यत्तदेव योद्यापि न संवृणोति ।

  न वेद रुष्टेऽद्य सहस्रनेत्रे गन्ता स कामः खलु कामवस्थाम् ॥ ६३ ॥

 त्रिनेत्रेति ॥ त्रिनेत्र एव त्रिनेत्रमात्रं तेन नेत्रत्रयसहितेन हरेणैव रुषा क्रोधेन कृत्वा यत् अशरीरत्वरूपं दुःखं कृतं, यः कामस्तदेव अत्य(न)ल्पं दुःखमद्यापि एतावद्दिनपर्यन्तं न संवृणोति निश्चितं निस्तरति, स कामोऽद्य ईश्वरादधिके नेत्रसहस्त्रसहिते सहस्रनेत्रे महेन्द्रे रुष्टे कुद्धे सति कतमां कामवस्थां दशां गन्ता गमिष्यतीत्यहं न वेद न जाने । नेत्रत्रयसहितेन हरेण भस्मसात्कृतः सहस्रनेत्रसहितेनेन्द्रेण कीदृशीमवस्थां नेष्यत इत्यहं न जाने इत्यर्थः । कामस्तमतितरां पीडयतीति भावः । 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः । वेद, 'विदो लटो वा' इति णल्[३]

  इदानी विभावानुभावव्यभिचारिभावानाह-

  पिकस्य वाङ्मात्रकृताव्धलीकान्न स प्रभुर्नन्दति नन्दनेऽपि।

 बालस्य चूडाशशिनोऽपराधान्नाराधनं शीलति शूलिनोपि ॥ ६४ ॥

 पिकस्येति ॥ स प्रभुः समर्थ इन्द्रः पिकस्य कोकिलस्य वागेव वाङ्मानं तेन कृताद्रचिताव्द्यलीकादप्रियाद्वाग्रूपादप्रियाद्धेतोः नन्दने वनेऽपि न नन्दति आनन्दं न प्राप्नोति ।


  1. 'अत्र सहोक्तिश्लेषतुल्ययोगितालंकारः' इति 'साहित्यविद्याधरी
  2. 'अत्र कविसंमतसादृश्येन भानौ शशाङ्कभ्रमाद्रान्तिमानलंकारः' इति जीवातुः
  3. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।