पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
अष्ट्रमः सगः

नन्दयतीति नन्दनं तस्मिन्यदनन्दनं तदाश्चर्यमित्यर्थः । अन्योऽपि प्रभुवाङ्मात्रकृताद्विप्रियान्निष्ठभाषणाद्धेतानन्दने पुत्रेऽपि न नन्दति । तथा बालस्यैककलस्य चूडाशशिनः शिरश्चन्द्रस्यापराधात्तत्कृतात्पीडनाहेतोः शूलिनोपि सेवनीयस्य हरस्याप्याराधनं सेवां न शीलति न करोति । पूर्व प्रत्यहमीश्वरसेवायै गच्छति, इदानीं तु त्वद्विरहाच्चन्द्रपीडाभयात्तत्सेवा परित्यक्तेत्यर्थः । अन्योपि तेजस्वी स्ववैरिपुरस्कारिणः शस्त्रपाणेरपि सेवां न करोति । त्वद्विरहाच्चन्द्रकलाकोकिलालापावतितरां तस्यासह्यौ जाताविति भावः । शीलति, 'शील समाधौ' इति भ्वादिः। दुःखदैन्यादयो व्यभिचारिभावाः स्वयमू[१]ह्याः॥

  तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रदृशां दिशन्ति ।

  कुहूगिरश्चञ्चुपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ ६५ ॥

 तम इति ॥ स्मरेषवः पुष्परूपत्वात्परागैः कृत्वा दिशः तमोमयीकृत्यान्धकारबहुलाः कृत्वा शक्रस्य दृशां नेत्राणां कुहूः इति स्वभावत एव गीर्यस्य कुहूगिरो द्विजस्य कोकिलस्य चञ्चपुटं राकारजन्यामपि पूर्णिमारात्रावपि सत्या वाग्यस्यैतादृशं दिशन्ति कथयन्ति । पूर्णचन्द्रां पूर्णिमामपि नष्टचन्द्रा कुहूरमावास्येयमिति कथयत्पिकचञ्चपुटमिन्द्रं प्रति सत्यवचनं जातमित्यर्थः । त्वद्विरहादिन्द्रो मदनान्धो जात इति भावः । अन्योपि ब्राह्मणः कमप्यन्धं प्रति पूर्णिमाममावास्यां वदति, सोपि मूर्खत्वात्तद्वाचमन्यं प्रति सत्यां कथयति । 'पूर्णे राका निशाकरे' इत्यमरः । 'कुहूः स्यात्कोकिलालापनऐन्दुकलयोरपि' इति विश्वः । पुटशब्दः पुंलिङ्गोऽपि । वाचाशब्दष्टावन्तोऽपि [२]वा ॥

  शरैः प्रसूनैस्तुदतः स्मरस्य स्मर्तुं स किं नाशनिना करोति ।

  अभेद्यमस्याहह वर्म न स्यादनङ्गता चेगिरिशप्रसादः ॥ ६६ ॥

 शरैरिति ॥ स इन्द्रः प्रसूनैः पुष्परूपैः शरैस्तुदतः पीडयतः स्मरस्य स्मर्तु कामं स्मृतिविषयं कर्तु अशनिना वज्रेण किं न करोति, अपितु मारयेदेव । अहह खेदे । यदि अस्य कामस्य गिरिशस्य हरस्य प्रसादोनङ्गतारूपमभेद्यं वर्म अच्छेद्यं कवचं न स्यात् । हरेणानङ्गतारूपो निग्रहोऽप्यनुग्रह एव कृतो यतस्तस्माद्रष्टुमशक्यत्वाद्वजेण मारयितुं न शक्यत इत्यर्थः । कामस्तथापराध्यति, यथा मारणाही भवतीति भावः । स्मरस्य 'अधीगर्थ-' इति कर्मणि ष[३]ष्ठी ॥

  धृताधृतेस्तस्य भवद्वियोगान्याद[४]न्यशय्यारचनाय लूनैः ।

  अप्यन्यदारिद्र्यहराः प्रवालैर्जाता दरिद्रास्तरवोमराणाम् ॥६७॥

 धृतेति ॥ अमराणां देवानां तरवो मन्दारादयोऽन्येषां दारिद्र्याहरा दारिद्र्यनाशका


  1. 'अत्र हेतुसमासोक्त्यलंकारौ' इति साहित्यविद्याधरी । 'अत्रानन्दशिवाराधनसंबन्धोक्तेरतिशयो. क्तिभेदः' इति जीवातुः।
  2. 'अत्र विरोधातिशयोक्त्यलंकारौ' इति साहित्यविद्याधरी । 'काव्यलिङ्गश्लेषातिशयोक्तिविरोधाभ्रान्तिमदलंकारसंकरः' इति जीवातुः ।
  3. 'अत्र छेकानुप्रासातिशयोक्तिकाव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी ।
  4. 'नानार्द्रशय्या' इति जीवातुसंमतः पाठः ।