अपि प्रवालैः पल्लवैः दरिद्रा जाताः । किंभूतैः प्रवालैः-भवद्वियोगात्त्वहिरहाद्धेतोः धृता अधृतिरधैर्यं येन तस्येन्द्रस्यातितप्तस्य अन्यान्याः प्रतिक्षणं नूतनाः शय्यास्तासां रचनाय निर्माणाय लूनैरवचितैः । पल्लवरहिता जाता इत्यर्थः । अन्येषां नन्दनवृक्षाणां का कथा, येऽकल्पितस्यापि दाने समर्थास्ते स्वस्वामिनः शय्यार्थं पल्लवदानेऽप्यसमर्था जाता इत्यर्थः । अन्यदारिद्र्यहरस्यापि दारिद्र्यमाश्चर्यकारीत्यर्थः । त्वद्विरहेणात्यन्तं पीड्यत इति भावः । अन्यान्य इति वीप्सायां द्वित्वे पूर्वपदस्य न प्रथमैकवचनान्तत्व[१]म् ॥
रवैर्गुणास्फालभवैः स्मरस्य स्वर्णाथकर्णौ बधिरावभूताम् ।
गुरोः शृणोतु स्मरमोहनिद्रामबोधदक्षाणि किमक्षराणि ॥ ६८॥
रवैरिति ॥ स्वर्णाथकर्णाविन्द्रको स्मरस्य गुणास्फालभवैः मौर्वीस्फालनसंभूतै रवैर्धनुष्टंकारैः कृत्वा वधिरावभूताम् । एवंसति स इन्द्रो गुरोर्बृहस्पतेः स्मरमोहनिद्रा कामजन्यमूर्च्छालक्षणा, अज्ञानलक्षणा वा निद्रा तस्याः सकाशाद्यः प्रबोधो जागरणं तत्र दक्षाणि समर्थानि काममोहहराण्यक्षराण्युपदेशवचनानि बधिरत्वात् , मदनपीडितत्वाञ्च किं कथं शृणोतु । किं उपायप्रश्ने, आक्षेपे वा । स्वर्णाथ इति, 'पूर्वपदात्सं. ज्ञायामगः' इति णत्व[२]म् ॥
अनङ्गतापप्रशमाय तस्य कदर्थयमना मुहुरामृणालम् ।
मधोमधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥६९॥
अनङ्गेति ॥ नाकनदीनलिन्यः स्वर्णदीकमलिन्यः स्वशत्रुभूतेपि शिशिर ऋतावनरागं प्रीतिं वहन्तां धारयन्ताम् । एतद्वरम्, नतु वसन्ते । किंभूता नलिन्यः-यतः तस्येन्द्रस्य अनङ्गतापप्रशमाय कामजनितसंतापशान्तये मधोमधौ वसन्तेवसन्ते 'पुष्पादारभ्य विसमभिव्याप्य मुहुर्वारंवारं कदर्थ्यमानाः पीड्यमानाः । शिशिरतॊ हिमेन पुष्पमात्रं नश्यति मूलभूतं मृणालं त्ववशिष्यते । वसन्ते तस्य कामज्वरशान्त्यर्थं मृणालानामप्युन्मूलनात्, कालान्तरेऽप्युत्पत्त्यसंभवादात्यन्तिकविनाशप्रसङ्गादिति भावः । वसन्ते कामपीडा भूयसीति भावः । वहन्तां स्वरितेत्त्वात्तङ्[३]॥
दमस्वसः सेयमुपैति तृष्णा ह[४] रेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।
दृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभार्तिमसौ बिभर्ति ॥७०॥
दमस्वस इति ॥ हे दमस्वसः, सेयमतिप्रसिद्धा हरेरिन्द्रस्य तृष्णा जगति लोकत्रयमध्ये अग्रिमलेख्यस्यादिमगणनीयवस्तुनः लक्ष्मी शोभामुपैति प्राप्नोति । लोके कस्य तृष्णा महतीति प्रश्ने इन्द्रतृष्णा प्रथमं गणनीयेत्यर्थः । कुतः-यद्यस्मात् दशामब्धि-