पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४३
अष्टमः सर्गः।

र्नाम सहस्रनेत्रत्वान्नयनसमुद्रोप्यसाविन्द्रःतब दृऐस्तृतीयो भागस्तस्य लोभोऽभिलापस्तजन्यामति पीडां विभति । सहस्त्रनेत्रोप्यन्यदीयनेत्रस्य तृतीयमपि भागं प्राप्तुं चेहाछति तातादृशो लोभवानन्यो नास्तीति तस्य तृष्णा प्रथमं गणनीयेत्यर्थः। त्वत्कटाक्षविक्षेपं वाञ्छतीति भावः । नाम अप्यर्थे, अहो इत्यर्थे वा । अग्रिम इति 'अग्रपश्चाडिमच्' । त्रिषु भागः 'सप्तमी' इति योगविभागात्समासे तृतीयो भाग इत्यर्थात्[१]

  अग्न्या[२]हिता नित्यमुपासते यां देदीप्यमानां तनुमष्टमूर्तेः।

  आशापतिस्ते दमयन्ति सोपि स्मरेण दासीभवितुं न्यदेशि ॥७१॥

 अग्नीति ॥ हे दमयन्ति, स्मरेण सोप्याशापतिरग्निः ते दासीभवितुं न्यदेशि त्वं भैम्या दासो भवेत्यादिष्ट आज्ञप्तः । स कः -अग्न्याहिता दीक्षिता देदीप्यमानां यामष्टमूर्तेरीश्वरस्य तनुं मूर्तिमग्निरूपां नित्यं सर्वदा उपासते सेवन्ते । स्मरहरमूर्तित्वात्स्वयमेव स्मरस्य दग्धत्वाञ्च स्मरवैरित्वेऽपि मराज्ञाकारित्वमाश्चर्यरूपमित्यपिशब्दो द्योतयति । कामो वह्निमपि पीडयतीति भावः । अग्नयाहिताः, 'वाहिताग्न्यादिषु' इति परनिपातः॥

  त्वद्गोचरस्तं खलु पञ्चबाणः करोति संताप्य तथा विनीतम् ।

  स्वयं यथा स्वादिततप्तभूयः परं न संतापयिता स भूयः ॥ ७२ ॥

 त्वद्गोचर इति ॥ खलु उत्प्रेक्षे, निश्चये वा । त्वगोचरः त्वद्विषयः पञ्चबाणस्तं वह्निं संताप्यातितरां तापयित्वा पीडयित्वा तथा विनीतं भयात्त्यक्तोपद्रवं करोति । स्वयं स्वेन स्वादितमनुभूतं तप्तभूयं तप्तभावो येनैवंविधः सन् वह्निः परमन्यं पुनः यथा न संतापयिता । स्वस्य पीडानुभावायप्रभृति मया कस्यापि संतापो न कार्यं इति बुद्धा विनीतो जात इत्यर्थः । अन्यदपि लोहादि संताप्य विनीतं क्रियते । अन्योऽपि साधुः स्वेनानुभूतपीडः परं न पीडयति । मदनस्तमतितरां पीडयतीति भावः[३]

  अदाहि यस्तेन दशार्धबाणः पुरा पुरारेनयनालयेन ।

  न निर्दहस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधमर्णः ॥ ७३ ॥

 अदाहीति ॥ पुरारेर्हरस्य नयनमेवालयो यस्य एवंभूतेन तेन वह्निना पुरा पूर्व यो दशार्धबाणः पञ्चवाणोदाहि दग्धः, स पञ्चवाणः कटाक्षविक्षेपमात्रजन्यत्वाद्भवत्या अक्षिवासी नेत्रवासी सन् तं वह्निमधुना इदानीं निर्दहन्नतितरां पीडयन् वैरशुद्धर्वैरनिर्यातस्याधमर्णो लग्नको न भवति । अन्यनयनालयस्थस्यात्मदाहकस्यान्यनयनालयेनैवात्मनैव दाहाद्वैरलक्षणमृणं तेनापाकृतमित्यर्थः । पुरुष श्रितस्य वह्नः स्वतोऽकिंचिकरत्वम् , अङ्गनानामपाङ्गेषु कामो वसतीति कृत्वा स्त्रियं श्रितस्य कामस्य महत्प्रभुत्वं सूचितम् । पूर्वोक्त एव भावः[४]


  1. 'अत्र विषमालंकारोऽनुप्रासश्च' इति साहित्यविद्याधरी
  2. 'अथ भगवतोग्नेरवस्थां वर्णयति-' इति जीवातुः
  3. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  4. 'अत्र व्याघातोलंकारः । यदुक्तं काव्यप्रकाशे-'यद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव तद्विधीयेत स व्याघात इति स्मृतः' इति साहित्यविद्याधरी।