पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५३
अष्टमः सर्गः।

न त्वतीर्णः । त्वच्चरणसेवया जीवतामस्माकं तुभ्यममरत्वं दातुं का शक्तिः । अत एव पूर्वोक्तं वचनं लज्जावहमेवेत्यर्थः । अत एव तवोपकर्तुमसमर्थानस्मान् दयां विधाय वृणीष्वेति भावः[१]

  नास्माकमस्मान्मदनापमृत्योस्त्राणाय पीयूषरसायनानि ।

  प्रसीद तस्मादधिकं निजं तु प्रयच्छ पातुं रदनच्छदं नः ॥१०४॥

 नेति ॥ यस्मात्पीयूषरूपाणि रसायनानि अस्मान्मदनलक्षणात्, तज्जानिताद्वा अप- मृत्योः सकाशादस्माकं त्राणाय न भवन्ति, तस्मात्प्रसीद अस्माकमुपरि प्रसन्ना भव । त्वमधिकममृतरसायनेभ्योऽप्यतितरां स्वादुम्, अधिकसामर्थ्यं वा निजं स्वीयं रदनच्छदमोष्ठं तु पुनः पातुं नोऽस्मभ्यं प्रयच्छ देहि । अनेन मदनापमृत्युः शान्तिं प्रा- प्स्यतीति भावः । सामान्यमौषधं यत्रापमृत्युशान्त्यर्थं न प्रभवति तत्र तदपेक्षया- ऽधिकमौषधं दीयते तेनापमृत्युः शाम्यति तद्वदस्माकम् । '-रसोपि नासौ' इति पाठे तस्माद्रसादित्यर्थः । अर्थाच्च यत्तदौ । अपमृत्योः, 'भीत्रा-' इत्यपादानत्वम् [२]

प्लुष्टः स्वैक्ष्चापरोपैः सह स हि मकरेणात्मभूः केनुनाऽभू-
 ड्वत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।
भ्रूभ्यां ते तन्वि धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्ता-
 दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥१०५॥

 प्लुष्ट इति ॥ य आत्मभूः कामः स्वैश्वापरोपैर्धनुर्बाणैः मकरेण मीनरूपेण केतुना ध्व- जेनापि सह प्लुष्टो दग्धोऽभूत् स कामः अथानन्तरम् । इदानीमिति यावत्। त्वत्प्रसादात् नोऽस्माकं मानसो मनःसंवन्धी नन्दनो हर्षकः, अथ च मानसः पुत्रः सन् मनसि जायतेऽसौ मनसिजः तद्भावं धत्तां धारयतु । 'तव संगमवशादानन्दकः कामोऽस्सि- न्मनसि पुनरुत्पद्यताम् । अत एव मनसिजत्वमपि धारयत्वित्यर्थः । हे तन्वि, स कामः ते भ्रूभ्यां धन्वी भवतु । भ्रूभ्यामिति द्विवचनेन पूर्वापेक्षया चापद्वयं सूचितम् । तव सितैः श्वेतैस्तीक्ष्णैश्च स्मितैः कृत्वा जेतार एव जैत्रा एवंभूता भल्ला बाणशल्यानि यस्य एवंविधः स्ताद्भवतु । अत्रापि पूर्वापेक्षयाऽधिकं तीक्ष्णत्वं जैत्रत्वं अनियतसंख्यत्वं च सूचितम् । तव नेत्रे एव चञ्चत्तरं अतिशयेन शोभमानं, चपलतरं वा यच्छफरयुगं तस्य अधीनो मीनध्वजलक्षणोऽङ्कः चिह्नं यस्य एवंभूतः अस्तु । पूर्वमेक एव ध्वजो- ऽभूत् , इदानीं तु द्वौ मीनध्वजाविति शफरयुगपदेन सूचितम् । त्वयाऽस्मद्वरणे कृते सति पूर्वापेक्षयाऽधिकसामर्थ्यः साङ्गो मदनः पुनरुत्पत्स्यते तस्मादस्मान्वृणीष्वेति भावः । अन्योऽपि विनष्टो देवताप्रसादात्पुनरुत्पद्यतेऽधिकशक्तिश्च भवति । 'नन्दनो हर्षके सुते' इति विश्वः । धन्वी व्रीह्या[३] दिः ॥


  1. 'अत्र काव्यलिङ्गातिशयोक्त्यलंकारौं' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्राससहोत्त्यतिशयोक्त्यक्यलंकाराः स्रग्धरा वृत्तम्' इति साहित्यविद्याधरी।