पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
नैषधीयचरित

मेघः चातकमण्डलीमिव । किं[१] कृत्वा-पिपासावशाद्विरुत्य शब्दित्वा विश्रान्तवतीं विश्रान्ताम् । 'शक्रघातुकमत्तेभवषुकाब्दा धनाधनाः' इत्यमरः। 'चरिचलि-' इत्यादितो द्वित्वे आगागमे च (अनुवर्तमाने) 'हन्तेर्घत्वं च' इति साधुः[२]

  अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिमयोजने।

  गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्ग्मिता

 अये इति ॥ अये भैमि, मम जिह्वया तस्मिन्कुलनामलक्षणे द्वयेपि उदासितमेवोदा- सीनतयैव जातम् । यतः-अनतिप्रयोजनेऽतिशयितप्रयोजनशून्ये । निरर्थकत्वान्मया द्वयं न कथितमिति भावः। निष्प्रयोजनेऽपि पृष्टे प्रत्युत्तरं दातव्यमित्याशङ्क्याह-पल्ल- वनं अत्यल्पेऽपि प्रमेये बहुशब्दरचनं, अर्थलाघवमर्थसंकोचश्व द्वे अपि गिरो वाण्या गरौ विषतुल्यौ दोषौ । अविचार्यैव विषं यथा त्यज्यते तथैते अपि त्याज्ये इत्यर्थः । त- स्मानिरर्थकं न प्रष्टव्यं, पृष्टमपि प्रत्युत्तरार्हं न भवतीति मज्जिह्वयोदासितमिति भावः । दोषत्वमेव समर्थयति-हि यस्मात् मितं च शब्दतः,सारं चार्थतः, यद्वचः सैव वा- ग्ग्मिता पण्डितता । तद्विपरीतस्य दोषवत्त्वं स्फुटमेवेत्यर्थः । चौ सामस्त्यं सूचयतः । उदासितम्, भावे क्तः । पल्लवशब्दो लक्षणया विस्तारवाची तस्मात् 'तत्करोति-' इति ण्यन्ताल्ल्युट् । 'ण्यासश्रन्थः-' इति युज् वा[३]

 नाम्नोतिप्रयोजनत्वाभावं समर्थयते-

  वृथा कथेयं मयि वर्णपद्धतिः कयानुपूर्व्या समकेति केति च ।

  क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी॥९॥

 वृथेति ॥ हे भैमि, मयि का वर्णपद्धतिः वर्णपङ्कि: समकेति संकेतिता, कया च आनुपूर्व्या परिपाट्या संकेतिता । चकारः प्रश्नसमुच्चयार्थः । नकाराकारलकाराकार- विसर्जनीयात्मिका संज्ञा संकेतिता । किं तत्रापि तद्विपरीता लकारादिरूपा वा इयं कथा गोष्टी निष्प्रयोजना । नामसंज्ञानभिधाने व्यवहारसिद्धिः कथमित्यत आह-खलु यस्मात् आवयोस्तव मम च समक्षं प्रत्यक्षं व्यवहारं विधातुं कर्तुं साधयितुं युष्मदस्मदी पदे सुबन्ते क्षमे समर्थे । परोक्षव्यवहार एव हि संज्ञा सप्रयोजना, प्रत्यक्षव्यवहारे च त्वमेवं कुरु, अहमेवं करिष्यामीति युष्मदस्मद्भ्यामेव कार्यसिद्धेः पूर्वोक्ता कथा निष्प्र- योजनैव । यद्वा चकारात्कुलप्रश्नोऽपि वृथैवेत्यर्थः । यथा नामप्रश्नः । उत्तरश्लोकेन कु- लस्य दत्तोत्तरत्वात् । व्याख्यानान्तरं तथा ज्यायो नेत्युपेक्ष्यम् । समकेतीति 'कित नि- वासे रोगापनयने च' इत्यस्य लुङि रूपम् । आवयोरिति परत्वादस्मदः शेषः। युष्मद- स्मदी शब्दपरत्वादादेशाभा[४]वः ॥


  1. 'कीदृशीम्' इति सुखावबोधा।
  2. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गार्थान्तरन्यासालंकारः' इति साहित्यविद्याधरी।
  4. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।