पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
नवमः सर्गः।

 मयेति ॥ स्वनाम मम कर्णयोः सुधारूपमकुर्वते स्वनाम न कथयते ते तुभ्यं मयापि प्रतिवाचिकं प्रत्युत्तरं न देयं दातुमनुचितम् । तत्र हेतुमाह-हि यस्मात् परेण पुंसा परपुरुषेण सह ममापि संकथा सम्यग्गोष्ठी कुलाबला कुलस्त्री तस्या आचारेण सहासनमेकस्मिन्नासन उपवेशनं तस्यासहा । पतिव्रताचारपरपुरुषकथयोः सहावस्थानलक्षणो विरोध इत्यर्थः । यथा त्वया सदाचारभङ्गभीत्या नाम न कथ्यते, तथा मयापि स्त्रीकुलाचारभङ्गभीत्या स्वाभिप्रायो न कथ्यत इति प्रतिवन्दी[१]त्यर्थः ॥

  हृदाभिनन्द्य प्रतिबन्द्यनुत्तरः प्रियागिरः सस्मितमाह स स्म ताम् ।

  वदामि वामाक्षि परेषु मा क्षिपस्वमीदृशं माक्षिकमाक्षिपद्वचः ॥१७॥

 हृदेति ॥ स नलः सस्मितं यथा तथा तां भैमीमाह स्मावोचत् । किं कृत्वा-प्रियागिरः भैमीवचांसि प्रिया मनोज्ञा वा गिर--साधूक्तमिति हृदा मनसाभिनन्ध स्तुत्वा । किंभूतः-कुलस्त्रीणामाचारानुचितं परपुरुषसंवादमहमपि न करोमीति प्रतिवन्दी तया तस्याः सकाशाद्वा अनुत्तर उत्तरहीनः । ईदृग्वक्रोक्तिप्रतिवन्द्यादिचातुर्यं कस्या अपि नास्तीत्याश्चर्यवशास्मितपूर्वाभिभाषित्वम् । तदेवाह-हे वामाक्षि सुनेत्रे, कटाक्षविक्षेपाद्वक्रनेत्रे वा अहं वदाम्युपदिशामि-त्वं माक्षिकं मधु आक्षिपत्तिरस्कुर्वत् अतिमधुरमीदृशं प्रतिबन्धादिरूपं वचनं परेष्विचन्द्रादिव्यतिरिक्तेषुमादृशेषु मा क्षिप।तानेव प्रत्येवं वदितुं युक्तम्, न तु मां प्रतीति प्रतिवन्दीं मुक्त्वा ऋजुमार्गेणैव प्रत्युत्तरं देहीति भावः। सस्मितं यथा तथा माक्षिकमाक्षिपत् वचनमाह स्मेत्यन्वयः। ईदृशं स्वं इन्द्रादिदूतत्वेनात्मीयं पुरुषं परपुरुषेषु मध्ये मा क्षिप । येन सह संकथया पातिव्रत्यभङ्गप्रसङ्गस्तादृशोऽहं न भवामि । किं त्विन्द्रादिदूतत्वात्त्वदीय एवेति मह्यमुत्तरे दत्तेऽपि न पातिव्रत्यक्षतिरिति भाव इति वा । माक्षिकमाक्षिपद्वचः परेषु मा क्षिप । किं तु मयि क्षिपेति वा । मयि परखुद्धिं मा कुर्विति नल एवाहमिति अर्थान्नाम कथितमिति वा । वदामि नाम कथयामि परेष्वन्येषु अयं नलादन्य इति मा क्षिपेति वा । सर्वथाऽहं नल एवेत्यर्थः । व्याख्यानान्तरं क्लिष्टत्वादुपेक्ष्यम् । वामाक्षि, बहुव्रीहौ पचि षित्त्वान्डीषि नदीत्वाद्धस्वः। मा क्षिप पूर्ववल्लोट्[२]

  करोषि नेमं फलिनं मम श्रमं दिशोनुगृह्णासि न कंचन प्रभुम् ।

  त्वमित्थमर्हासि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा ॥१४॥

 करोषीति ॥ त्वम् इमं (स्वं स्वीयं) मम श्रमं फलिनं सफलं न करोषि प्रश्नकाकुः । अपितु कुर्विति । तथा-दिशः कंचन प्रभुं नानुगृह्णासि, अपि तु स्वयंवरेणानुगृहाण । चतुर्षु मध्येऽन्यतमस्यापि वरणेन मम श्रमं सफलयेत्यर्थः । इत्थं प्रतिबन्दीरूपेण प्रकारेण रसो माधुर्यं तल्लक्षणममृतं तेन यत्स्नानं तेन पवित्रया गिरा सुरान् त्वमुपासिंतुमर्हा योग्यासि । एवंविधां वाणीं तान् प्रति संदेशयेति भावः । यथा गिरा मां संतोषयसि तथा देवानपि संतोषयेत्यर्थः[३]


  1. 'अत्र छेकानुप्राकासकाव्यलिङ्गालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासरूपकालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी