पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६३
नवमः सर्गः

  इदं निगद्य क्षितिभर्तरि स्थिते तयाभ्यधायि स्वगतं विदग्धया।

  अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये ॥२२॥

 इदमिति ॥ क्षितिभर्तरि नले इदं पूर्वोक्तं निगद्योक्त्वा स्थिते तृष्णींभावं प्राप्ते सति तया भैम्या स्वगतमप्रकाशमभ्यधायि अवादि । किंभूतया-भुवो भूलोकस्य स्मरं कामरूपमतिसुन्दरं तम् अधिस्त्रि स्त्रीविषये दूतयतां दूतं कुर्वतामिन्द्रादीनां नये नैपुणं कौशलं तस्य व्यये अभावे स्वमनो दधत्या धारयन्त्या । स्त्रीप्वभव्यः सामान्यो दूतः प्रेषणीय इति नीतिः । अयं चातिसुन्दरः प्रेषित इति तेष्वनभिज्ञता । सर्वथा नीतिशास्त्रं न जानन्तीति मनसि निश्चितवत्या । अतो-विदग्धया नीतिशास्त्रादौ चतुरया। यद्वा-तेषां मनो नयकौशलाभावे दधत्या । तेषां मनसि नयकौशलं नास्तीति निश्चितवत्येति योज्यम् । 'नोज्ज्वलं रूपवन्तं च नार्थवन्तं न चातुरम् । दृतं वापि हि दूतीं वा नरः कुर्यात्कदाचन ॥' इति नीतिः। अधिस्त्रि, इति सप्तम्यर्थेऽव्ययीभावः । नैपुणम् , भावे युवादित्वादण्[१]

 स्वगतं तं प्रति किमाहेत्याह-

  जलाधिपस्त्वामदिशन्मयि ध्रुवं परेतराजः प्रजिघाय स स्फुटम् ।

  मरुत्वतैव प्रहितोसि निश्चितं नियोजितश्चोर्ध्वमुखेन तेजसा॥२३॥

 जलेति ॥जलाधिपो वरुणःमयि विषये त्वां ध्रुवं निश्चितमदिशदादिष्टवान् । परेतराजः स यमः स्फुटं निश्चितं प्रजिघाय प्रेषितवान् । मरुत्वता इन्द्रेणैव निश्चितं प्रहितोऽसि । ऊर्ध्वमुखेन तेजसा वह्निना नियोजितश्च । चतुर्ष्वप्यन्वयेष्वापाततः काकुवत्कथयेत्यस्य योजना । अथ चातिसुन्दर्या मयि अतिसुन्दरं त्वां यः समादिष्टवान् स पूर्वोक्तनीतिलङ्घनान्निश्चितं जडानां स्वामी। अतिमूर्ख इत्यर्थः। यश्च तादृश्यां मयि तादृशमेव त्वां प्रेषितवान् स परेतानां मृतानां राजैव । न चेतन इत्यर्थः । येन तादृश्यां मयि तादृशस्त्वं प्रेषितः स मरुत्वान्वातूलो भवति । येन तादृश्यां मयि तादृशस्त्वं नियोजितः स ऊर्ध्वमुखः पिशाचः प्रतिभारहितश्च । पिशाचश्चोर्ध्वमुखो भवति अप्रतिभश्च भवति । ऊर्ध्वमुखत्वेन त्वन्मुखसौन्दर्यं तेन न दृष्टमित्यपि सूचितम् । अवज्ञारूपत्वान्मनसैव नलं संबोध्येयमुक्तिः[२]

  अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याभरणं किमप्यसौ ।

  पुनस्तदाभाषणविभ्रमोन्मुखं मुखं विदर्भाधिपसंभवा दधौ॥२४॥

 अथेति ॥ अथ असौ सती निभृतस्मिता गुप्तस्मितेषत्स्मिता सतीकुलस्य पतिव्रतासमूहस्य किमपि लोकोत्तरमाभरणं एवंभूता विदर्भाधिपसंभवा भैमी स्वमुखं पुनः तेन सह यत् आभाषणं तत्र यो विभ्रमो विलासस्तल्लक्षणो वा तत्रोन्मुखं संमुखमेवंभूतं


  1. 'अत्र व्यतिरेकालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।